SearchBrowseAboutContactDonate
Page Preview
Page 339
Loading...
Download File
Download File
Page Text
________________ है| “छेडिं च इत्थियाओ मच्छा मणुया य सत्तमी पुढवीं” इत्यागमवचनात्पुरुषाणामेव सप्तमनरकपृथ्वीगमनयोग्य-11 कर्मोपार्जनसामर्थ्य न स्त्रीणामित्यधोगतौ पुरुषतुल्यसामर्थ्याभावादूर्ध्वगतावपि तासां तदभावोऽनुमीयते ततस्तासां । पुरुषेभ्योऽपकृष्यमाणतेति, तदप्ययुक्तं, यतो येषामधोगती तुल्यसामर्थ्याभावस्तेषामूर्ध्वगतावप्यनेन भाव्यमिति न नियमोऽस्ति, तथाहि-समुच्छिमभुयगखगचउप्पयसप्पित्थिजलचरेहितो । सनरेहितो सत्तसु कमोववजंति है। नरएसु ॥१॥” इति वचनाद्भुजगचतुष्पत्सर्पखगजलचरनराणामधोगतावतुल्यं सामर्थ्य मूर्द्धगतौ तु "सन्नितिरिक्खेहिंतो सहस्सारंतिएसु देवेसु । उप्पजंति परेसुवि सम्वेसुवि माणुसेहिंतो ॥१॥” इति वचनादेषामासहसारान्तोपपातातुल्यमेव सामर्थ्यम् , उक्तं च-"विषमगतयोऽप्यधस्तादुपरिष्टात्तुल्यमासहस्रारम् । गच्छन्ति च तिर्यञ्चस्तदधोगत्यूनताऽहेतुः॥३॥” अतो नासप्तमनरकपृथ्वीगमनत्वेन विशिष्टसामर्थ्यासत्त्वम्, अथ वादादिलब्धिरहितत्वेन, तदप्यचारु, यतो यदि वादादिलब्धिमत्त्वेन विशिष्टसामर्थ्य व्याप्तमुपलब्धं भवेत्ततस्तनिवृत्तौ तस्य निवृत्तिः स्यात्, न चैवम् , अनयोर्व्याप्यव्यापकभावस्य क्वचिदनिश्चयात् , अल्पश्रुतत्वं तु मुक्त्यवाप्त्याऽनुमितविशिप्टसामथ्यापतुषादिभिरनैकान्तिकमित्यनुद्घोप्यमेव, यदप्यनुपस्थाप्यतापाराश्चितकशून्यत्वेनेत्युच्यते, तदप्ययुक्तं, १ षष्ठीं च नियो मत्स्या मनुजाश्च सप्तमी पृथ्वीम् । २ समूछिमभुजपरिसर्पखचरचतुष्पदसर्पस्त्रीजलचरेभ्यः । समनुष्येभ्यः सप्तसु क्रमादुपपद्यन्ते नरकेषु ॥२॥ ३ संज्ञितिर्यग्भ्यः सहस्रारान्तिकेषु देवेषु । उत्पद्यन्ते परेष्वपि सर्वेष्वपि मनुष्येभ्यः॥ ३॥ . Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.600236
Book TitleUttaradhyayansutram Part 03
Original Sutra AuthorVadivetal, Shantisuri
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1917
Total Pages408
LanguageSanskrit
ClassificationManuscript & agam_uttaradhyayan
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy