SearchBrowseAboutContactDonate
Page Preview
Page 338
Loading...
Download File
Download File
Page Text
________________ उत्तराध्य. बृहद्वृत्तिः ॥६७९॥ मन्दसत्त्वतया, यतः सत्त्वमिह व्रततपोधारणविषयमेषितव्यम्, अन्यस्यानुपयोगित्वात्, तच्च ताखप्यनल्पं सुदुर्धर - शीलवतीषु संभवति, उक्तं च - " ब्राह्मी सुन्दर्यार्याराजीमती चन्दनागणधराद्याः । अपि देवमनुजमहिता विख्याताः | शीलसत्त्वाभ्याम् ॥ १ ॥" अतो न चारित्रासम्भवेन विशिष्टरलत्रयस्याभावः, इत्थं च चारित्रसम्भवे सिद्ध एव ज्ञानदर्शनसम्भवः, तत्पूर्वकत्वात्तस्य, उक्तं हि - "पूर्वद्वयलाभः पुनरुत्तरलाभे भवति सिद्धः" इति, तदभावपक्षोऽपि नाश्रयणीयः, त्रयाभावपक्षस्त्वेवं त्रितयसिद्धावनवसर एव दृश्यन्ते च सम्प्रत्यपि त्रितयमभ्यस्यन्त्यस्ताः, उक्तं च"जानीते जिनवचनं श्रद्धत्ते चरति चार्यिकाऽशवलम्" इति अथ प्रकर्षपर्यन्तप्राप्तस्याभावः एवं तर्हि तस्याप्य - भावः किं कारणाभावेन विरोधिसम्भवेन वा ?, न तावत्कारणाभावेन, अविशिष्टरत्नत्रयाभ्यासस्यैव तन्निबन्धत्वेनागमेऽभिधानात् तस्य च स्त्रीष्यनन्तरमेव समर्थितत्वात् नापि विरोधिसम्भवेन, तस्यास्मादृशामत्यन्तपरोक्षत्वेन | केनचिद्विरोधानिर्णयादिति न रत्नत्रयाभावेन स्त्रीणां पुरुषेभ्योऽपकृष्यमाणत्वम्, अथ विशिष्टसामर्थ्यासत्त्वेन, इदम| पि कथमिति वाच्यं ?, किं तावद् अससमनरकपृथ्वीगमनत्वेनाहो खिद्वादादिलब्धिरहितत्वेनाल्पश्रुतत्वेनानुपस्थाप्यतापाराञ्चितकशून्यत्वेन वा ?, तत्र न तावदसप्तमनरकपृथ्वीगमनत्वेन, यतोऽत्र किं सप्तमनरकपृथ्वीगमनाभावो यत्रैव जन्मनि तासां मुक्तिगामित्वं तत्रैवोच्येत सामान्येन वा १, तत्र यद्याद्यो विकल्पस्तदा पुरुषाणामपि यत्र जन्मनि | मुक्तिगामिता न तत्रैव सप्तमपृथ्वीगमनमिति तेषामपि मुक्तयभावप्रसङ्गः, अथ सामान्येन, अत्र चायमाशयो - यथा Jain Education International For Personal & Private Use Only जीवाजीव विभक्ति ० ३६ ॥६७९॥ www.jainelibrary.org
SR No.600236
Book TitleUttaradhyayansutram Part 03
Original Sutra AuthorVadivetal, Shantisuri
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1917
Total Pages408
LanguageSanskrit
ClassificationManuscript & agam_uttaradhyayan
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy