SearchBrowseAboutContactDonate
Page Preview
Page 344
Loading...
Download File
Download File
Page Text
________________ उत्तराध्य. जीवाजीव विभक्तिः बृहद्वृत्तिः ॥६८२॥ RRRRRAAK वाच्यं, यतस्तयोः सम्बन्धाभावः किं भिन्नकर्मोदयरूपत्वेन पुरुषवत्स्त्रिया अपि स्त्रियां प्रवृत्तिदर्शनेन वा ?, न ताव- द्भिन्नकर्मोदयरूपत्वेन, भिन्नकर्मोदयरूपाणामपि पञ्चेन्द्रियजात्यादीनां देवगत्यादीनां च सदा सम्बन्धदर्शनात्, नापि पुरुषवत्स्त्रिया अपि स्त्रियां प्रवृत्तिदर्शनेन, इयं हि पुरुषाप्राप्तौ खवेदोदयादपि संभवत्येव, उक्तञ्च-“सा खकवेदात्तिर्यग्वदलामे मत्तकामिन्याः" इति, अथ स्त्रीत्वस्य पल्यशतपृथक्त्वावस्थानाभिधानादेवमुच्यते, इदमपि न सुन्दरं, तत्र स्त्रीत्वानुबन्धस्य विवक्षितत्वात् , संभवति हि ख्याकारविच्छिदेऽपि तत्कारणकर्मोदयाविच्छेदः, तदविच्छेदाच पुंस्त्वाद्यव्यवधानेन पुनः स्त्रीशरीरग्रहणमिति, किञ्च-"मणुयगईए चउदस गुणठाणाणि होति" तथा पंचिंदिएसु गुणठाणाणि हुंति चउदस' तथा 'चउदस तसेसु गुणठाणाणि हुंति' तथा 'भवसिद्धिगा व सव्वट्ठाणेसु होति" इत्यादि स्त्रीशब्दरहितमपि प्रवचनं स्त्रीनिर्वाणे प्रमाणमस्ति, स्त्रीणामपि पुंवन्मनुष्यगत्यादिधर्मयोगात्, अथ सामान्यविषयत्वान्नेदं स्त्रीविशेषे प्रमाणम् , एवं सति पुरुषाणामपि विशेषरूपताऽस्ति न वा?, न तावन्नास्ति, मनुष्यगतिविशेषरूपत्वात्तेषाम् , अथास्ति विशेषरूपता, तथा सति तेष्वपि कथमेतत्प्रमाणं?, यथा च तेषु प्रमाणं तथा किं न स्त्रीष्वपीति ?, अथ पुरुषेष्वेव तदर्थवदिति स्त्रीषु तस्याप्रवृत्तिः, एवं सति किं न विपर्ययकल्पनापि, न चैवमपर्याप्तकमनुष्यादीनां देवनारकतिरश्चां च निर्वाणप्रसङ्गः, तेषामेतद्वाक्याविषयत्वात्, एतदविषयत्वं चापवादविषयत्वात् , उक्तं हि-"अपवादविषयं परिहत्य उत्सर्गः प्रवर्त्तते" इति, अपवादश्च-"मिच्छादिट्ठी अपज ॥६८२॥ Jain Education Internal anal For Personal & Private Use Only wwww.jainelibrary.org
SR No.600236
Book TitleUttaradhyayansutram Part 03
Original Sutra AuthorVadivetal, Shantisuri
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1917
Total Pages408
LanguageSanskrit
ClassificationManuscript & agam_uttaradhyayan
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy