SearchBrowseAboutContactDonate
Page Preview
Page 336
Loading...
Download File
Download File
Page Text
________________ उत्तराध्य. *%*% C बृहद्वृत्तिः ॥६७८॥ 405406464560** पुरुषसिद्धाश्च, तथैव च 'नपुंसग'त्ति, इहोत्तरत्र च प्रक्रमेण सिद्धशब्दयोगानपुंसकसिद्धाः खलिङ्गसिद्धाः खलिङ्गं च जीवाजीव मुक्तिपथस्थितानां भावतोऽनगारत्वादनगारलिङ्गमेव रजोहरणमुखवस्त्रिकादिरूपम्, अन्यद्-एतदपेक्षया भिन्नं ३ का विभक्तिः तच तलिङ्गं चान्यलिङ्गं तस्मिंश्च शाक्यादिसम्बन्धिनि सिद्धाः, 'गृहिलिङ्गे गृहस्थवेषे सिद्धा मरुदेवीखामिनीवत्, तथैवे' त्युक्तसमुच्चये चकारस्तु तीर्थातीर्थसिद्धाद्यनुक्तभेदसंसूचकः, इह च ये स्त्रीनिर्वाणं प्रति विप्रतिपद्यन्ते त एवं | वाच्याः-इह खलु यस्य यत्रासम्भवो न तस्य तत्र कारणावैकल्यं, यथा सिद्धशिलायां शाल्यङ्करस्य, अस्ति च तथाविधस्त्रीषु मुक्तेः कारणावैकल्यं, न चायमसिद्धो हेतुर्यतोऽस्यासिद्धत्वं किं स्त्रीणां पुरुषेभ्योऽपकृष्यमाणत्वेनाहोखिन्निर्वाणस्थानाद्यप्रसिद्धत्वेन निर्वाणसाधकप्रमाणाभावेन वा ?, तत्र यदि तावत् पुरुषेभ्योऽपकृष्यमाणत्वेन तदा तत् किं सम्यग्दर्शनादिरत्नत्रयाभावेन विशिष्टसामर्थ्यासत्त्वेन पुरुषानभिवन्द्यत्वेन स्मारणाद्यकर्तृत्वेनामहर्द्धिकत्वेन | मायादिप्रकर्षवत्त्वेन वेति विकल्पाः, तत्र न तावत्सम्यग्दर्शनादिरत्नत्रयस्याभावेन यतस्तस्यासौ किमविशिष्टस्य प्रकर्षपर्यन्तप्राप्तस्य वा?, यद्यविशिष्टस्य तदा किमियं चारित्रस्थासम्भवेनोत ज्ञानदर्शनयोस्त्रयाणां वा?, यदि चारित्रस्यासम्भवेन तदा सोऽपि किं सचेलत्वेन स्त्रीत्वस्य चारित्रविरोधित्वेन मन्दत्वेन मन्दसत्त्वतया वा ?, यदि सचेलत्वेन 3 तदा चेलस्यापि चारित्राभावहेतुत्वं परिभोगमात्रेण परिग्रहरूपत्वेन वा?, यदि परिभोगमात्रेण तदा तत्परिभोगोऽपि है तासां तत्परित्यागाशक्तत्वेन गुरूपदिष्टत्वेन वा ?, न तावत्तत्परित्यागाशक्तत्वेन यतः-"प्राणेभ्यो नापरं प्रियम्" ॥६७८॥ dain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.600236
Book TitleUttaradhyayansutram Part 03
Original Sutra AuthorVadivetal, Shantisuri
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1917
Total Pages408
LanguageSanskrit
ClassificationManuscript & agam_uttaradhyayan
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy