________________
एसा अजीवविभत्ती, समासेण वियाहिया। इत्तो जीवविभत्ति, वुच्छामि अणुपुव्वसो ॥४७॥ 'एषा' अनन्तरोक्ताऽजीवविभक्तिर्व्याख्याताऽनन्तरं जीवविभक्तिं वक्ष्यामि 'अणुपुब्बसो'त्ति आनुपूर्वेति सूत्रा-2 थः ॥ यथाप्रतिज्ञातमाह
संसारत्था य सिद्धा य, दुविहा जीवा वियाहिया।सिद्धा णेगविहा वुत्ता, तं मे कित्तयओ सुण ॥४८॥ ___ संसरन्युपलक्षणत्वादवतिष्ठन्ते च जन्तवोऽस्मिन्निति संसारो-गतिचतुष्टयात्मकस्तत्र तिष्ठन्तीति संसारस्थाःनरकादिगतिवर्त्तिनस्ते च सिद्धाश्च प्रागुक्तव्युत्पत्तयः, 'द्विविधाः' उपदर्शितभेदतो द्विभेदा जीवा व्याख्याताः, तत्र सिद्धाः 'अनेकविधाः' अनेकप्रकारा उक्तास्तमिति सूत्रत्वात्तान्, पठन्ति च-'दुविहा जीवा भवन्ति तत्थाणेगविहा सिद्धा ते'त्ति, 'मे' मम कीर्तयतः 'सुण'त्ति शृणुत, अल्पवक्तव्यत्वाच्च पश्चानिर्देशेऽपि प्रथमतः सिद्धभेदाभिधानप्रतिज्ञानमदुष्टमिति सूत्रार्थः ॥ अनेकविधत्वमेवैषामुपाधिभेदत आह
इत्थीपुरिससिद्धा य, तहेव य नपुंसगा। सलिंगे अन्नलिंगे य, गिहिलिंगे तहेव य ॥४९॥
उक्कोसोगाहणाए य, जहन्नमज्झिमाइ य । उहूं अहे य तिरियं च, समुइंमि जलंमि य ॥५०॥ 'इत्थीपुरिससिद्धत्ति सिद्धशब्दः प्रत्येकमभिसम्बध्यते ततः स्त्रियश्च ते पूर्वपर्यायापेक्षया सिद्धाश्च स्त्रीसिद्धा एवं
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org