________________
धर्मवदित्यनेन, “दश धर्म न जानन्ति, धृतराष्ट्र ! निबोधत ॥ मत्तः प्रमत्त उन्मत्तः, श्रान्तः क्रुद्धो बुभुक्षितः ॥
| त्वरमाणश्च भीरुव, लुब्धः कामी च ते दश ॥ १ ॥” इति गृझत इति, प्रत्यन्तरेषु त्वन्तपादद्वयं न दृश्यत एव ॥ | यथाप्रतिज्ञातमाह
संत पडणाई, अपजवसिआवि अ । ठिहं पडुच्च साईआ, सप्पज्जवसिआवि अ ॥ १२ ॥ असंखकालमुकोसं, इक्कं समयं जहन्नयं । अजीवाण य रूवीणं, निई एसा विआहिआ ॥ १३ ॥ अनंतकालमुक्कोसं, इक्कं समयं जहण्णयं । अजीवाण य रूवीणं, अंतरेयं विआहिअं ॥ १४ ॥
'सन्ततिम्' उक्तरूपां 'प्राप्य' आश्रित्य 'ते' इति स्कन्धाः परमाणवश्व 'अणाइ'त्ति अनादयोऽपर्यवसिता अपि च, न हि ते कदाचित्प्रवाहतो न भूता न वा न भविष्यन्तीति, 'स्थिर्ति' प्रतिनियतक्षेत्रावस्थानरूपां 'प्रतीत्य' अङ्गीकृत्यसादिकाः सपर्यवसिता अपि च, तदपेक्षया हि प्रथमतस्तथाऽस्थित्वैवावतिष्ठन्ते अवस्थाय च न पुनर्न तिष्ठन्तीत्यभिप्रायः । सादिसपर्यवसितत्वेऽपि कियत्कालमेषामवस्थितिः १ इत्याह- 'असङ्ख्यकालम् ' आगमप्रतीतमुत्कृष्टा, समयमेकं जघन्यका, अजीवानां रूपिणां पुद्गलानामिति योऽर्थः स्थितिरेषा व्याख्याता, जघन्यत एकसमया उत्कृष्टतस्त्वसङ्ख्येयकालम्, असङ्ख्येयकालात्परतोऽवश्यमेव विचटनात् । इत्थं कालद्वारमाश्रित्य स्थितिरुक्ता, सम्प्रत्येतदन्तर्गतमेवान्तरमाह - 'अनन्तकालं' समयप्रसिद्धमुत्कृष्टमेकं समयं जघन्य कमजीवानां रूपिणाम् ' अंतरेय 'न्ति अन्तरं
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org