________________
उत्तराध्य.
बृहद्वृत्तिः ॥६७१॥
३६
प्रशस्तं यथा भवत्येवं 'यतते' यत्नवान् भवति, क -संयमे-उक्तरूपसंयमविषय इति सूत्रार्थः ॥ आह-जीवाजी- जीवाजीव वविभक्तिज्ञानमिव लोकालोकविभक्तिज्ञानमपि संयमयतनायां विषयतयोपयुज्यत एवेत्याह
विभक्तिः ___ जीवा चेव अजीवा य, एस लोए वियाहिए । अजीवदेसमागासे अलोए से वियाहिए ॥२॥ ___ 'जीवाश्चैवाजीवाश्च वक्ष्यमाणाः, कोऽर्थः?-जीवाजीवरूपः 'एष'इति प्रतिप्राणि प्रत्यक्षः प्रतीतो लोको विशेषेणाख्यातः-कथितो व्याख्यातस्तीर्थकृदादिभिरिति गम्यते, जीवाजीवानामेव यथायोगमाधाराधेयतया व्यवस्थितानां लोकत्वाद्, 'अजीवत्ति, अनेनाजीवसमुदाय उपलक्ष्यते, स च धर्माधर्माकाशपुद्गलात्मकस्तस्य देश इत्यंशोऽजीवदेश आकाशमलोकः स व्याख्यातो,-'धर्मादीनां वृत्तिव्याणां भवति यत्र तत्क्षेत्रम् । तैव्यैः सह लोकस्तद्विपरीतं बलोकाख्यम् ॥१॥” इति भावार्थः ॥ इह च जीवाजीवानां विभक्तिः प्ररूपणाद्वारेणैवेति तां विधित्सुर्यथाऽसौ भवति तथाऽऽहब्बओ खित्तओ चेव, कालओ भावओ तहा । परूवणा तेसि भवे, जीवाणमजीवाण य ॥३॥
६७१॥ 'द्रव्यतः' द्रव्यमाश्रित्य इदमियद्भेदं द्रव्यमिति, क्षेत्रतश्चैव' इदमियति क्षेत्र इति, 'कालतः' इदमेवंविधकाल-15 स्थितीति, 'भावतः' इमेऽस्य पर्याया इति तथेति समुच्चये 'प्ररूपणा' यथाखं भेदायभिधानद्वारेण स्वरूपोपदर्शनं
dain Education International
For Personal & Private Use Only
www.jainelibrary.org