SearchBrowseAboutContactDonate
Page Preview
Page 321
Loading...
Download File
Download File
Page Text
________________ जीवाजीवविभक्त्योर्मध्ये द्विविधा सिद्धानामसिद्धानां च, 'अज्जीवाणं तु'त्ति 'तुः' अपिशब्दार्थस्ततोऽजीवानामपि भवति 'दुविहा उत्ति, 'तुः' अवधारणे ततो द्विविधैव रूपिणामरूपिणां च 'विभाषितव्या' विशेषेण व्यक्तं वक्तव्या यथा 'सूत्रे' प्रक्रान्ताध्ययनरूपे, इह तु प्रक्रमायाताऽपि पौनरुक्त्यप्राप्तेरसौ न प्रतिपाद्यत इति भावः, 'भावे' भावनिक्षेपे विभक्तिः 'खलु' निश्चितं ज्ञातव्या 'पड़िधे भावे' षट्प्रकारौदयिकादिभावविषया, आह-एवमनेकविधायां विभक्ताविह कयाऽधिकारः १, उच्यते, 'अधिकारः' अधिकृतम् 'अत्रेति प्रस्तुते पुनःशब्दो वाक्यान्तरोपन्यासे 8/'द्रव्यविभक्त्या' जीवाजीवद्रव्यविभागावस्थापनरूपया, तस्या एवात्र प्रदर्यमानत्वादिति भाव इति नियुक्तिगाथा-3 अटकावयवार्थः । इत्यवसितो नामनिष्पन्ननिक्षेपः, सम्प्रति सूत्रानुगमे सूत्रमुच्चारणीयं, तच्चेदम् जीवाजीवविभत्ति मे, सुहेगमणा इओ। जं जाणिऊण भिक्खू, सम्मं जयइ संजमे ॥१॥ जीवाश्च-उपयोगलक्षणा अजीवाश्च-तद्विपरीता जीवाजीवास्तेषां विभजनं विभक्तिः-तत्तद्भेदादिदर्शनतोऽपि विभागेनावस्थापनं जीवाजीवविभक्तिस्तां 'मे' मम कथयत इति गम्यते 'शृणुत' आकर्णयत शिष्या इति शेषः, पठन्ति च 'सुणेह मित्ति, कथम्भूताः सन्त ?-एक-दर्शनान्तरोक्तजीवाजीवविभक्तावगतत्वेन मनः-चित्तं येषां ते एकमनसः, इहैव श्रद्धानवन्त इत्युक्तं भवति, 'इतः' इत्यस्मादनन्तराध्ययनादेतद्विषयात् श्रवणाद्वाऽनन्तरं यां जीवाजीवविभक्तिं ज्ञात्वा 'भिक्षुः' अनगारः पाठान्तरतः श्रमणो वा सम्यगिति-प्रशंसार्थो निपातः, ततश्च सम्यक् Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.600236
Book TitleUttaradhyayansutram Part 03
Original Sutra AuthorVadivetal, Shantisuri
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1917
Total Pages408
LanguageSanskrit
ClassificationManuscript & agam_uttaradhyayan
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy