SearchBrowseAboutContactDonate
Page Preview
Page 320
Loading...
Download File
Download File
Page Text
________________ उत्तराध्य. बृहद्वृत्तिः ॥६७०॥ सिद्धाणमसिद्धाण य अज्जीवाणं तु होइ दुविहा उ । रूवीणमरूवीण य विभासियवा जहा सुत्ते ॥५५५॥ | भावंमि विभत्ती खलु नायवा छविहंमि भावंमि । अहिगारो इत्थं पुण दवविभत्तीइ अझयणे ॥५५६ ॥ • निक्खेवेत्यादि गाथा अष्ट व्याख्यातप्राया एव, नवरं तद्व्यतिरिक्तश्च 'जीवद्रव्यं' द्रव्यजीव उच्यत इति प्रक्रमः 'तुः ' विशेषद्योतकः, स चायं विशेषः - यथा न कदाचित्तत्पर्यायवियुक्तं द्रव्यं तथाऽपि च यदा तद्वियुक्ततया विवक्ष्यते तदा तद्द्रव्यप्राधान्यतो द्रव्यजीवः, भावे तु दशविधः 'खलुः' अवधारणे दशविध एव परिणामः कर्मक्षयोपशमोदयापेक्षपरिणतिरूपो जीवद्रव्यस्य सम्बन्धी जीवादनन्यत्वेन जीवतया विवक्षितो जीव इति प्रक्रमः, तत्र च क्षायो - पशमिकाः षट् पञ्चेन्द्रियाणि षष्ठं मनः औदयिकाः क्रोधादयश्चत्वारो मीलिता दश भवन्ति । एवमजीवनिक्षेपेऽपि | यदा पुद्गलद्रव्यमजीवरूपं सकलगुणपर्यायविकलतया कल्प्यते तदा तद्व्यतिरिक्तो द्रव्याजीवः, भावे चाजीवद्रव्यस्य - | पुद्गलस्य दशविधः परिणामोऽजीव इति प्रक्रमः, स च शब्दादयः पञ्च शुभाशुभतया भेदेन विवक्षिताः, तथा च सम्प्र| दायः - शब्दस्पर्शरस रूपगन्धाः शुभाश्राशुभाचे 'ति । तथा विभक्तिनिक्षेपे सति विभक्तिर्भवेत् 'द्विविधा' द्विप्रकारा, | द्वैविध्यं चास्याः सम्बन्धिभेदादेवेति तमाह - जीवानामजीवानां च, कोऽर्थः १ - जीवविभक्तिः - जीवानां विभागेनावस्थापनम्, एवमजीवविभक्तिश्च, उत्तरत्राप्येवमेव सम्बन्धिभेदाद्भेदो व्याख्येयः, 'तहिं 'ति वचनव्यत्ययात् ' तयोः ' Jain Education International For Personal & Private Use Only जीवानीव विभक्ति० ३६ ||६७०॥ www.jainelibrary.org
SR No.600236
Book TitleUttaradhyayansutram Part 03
Original Sutra AuthorVadivetal, Shantisuri
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1917
Total Pages408
LanguageSanskrit
ClassificationManuscript & agam_uttaradhyayan
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy