________________
तेषाम्' इति विभजनीयत्वेन प्रक्रान्तानां भवेत्' स्थाजीवानामजीवानां चेति सूत्रार्थः ॥ तत्र खल्पवक्तव्यत्वाइव्यतोऽजीवप्ररूपणामाह| रूविणो चेवरूवी य, अजीवा दुविहा भवे । अरूवी दसहा वुत्ता, रूविणोऽवि चउब्विहा॥४॥धम्मथिकाए तसे, तप्पएसे य आहिए । अधम्मे तस्स देसे य, तप्पएसे य आहिए ॥५॥ आगासे तस्स देसे य, तप्पएसे य आहिए । अद्धासमए चेव, अरूवी दसहा भवे ॥६॥ । रूपस्पर्शाद्याश्रया मूर्तिस्तदेषामेषु वाऽस्तीति रूपिणः 'चः समुच्चये 'एवेति पूरणे 'रूवी य'त्ति अकारप्रश्लेषात्प्राग्वद्वचनव्यत्ययाद्वाऽरूपिणश्च, नैषामुक्तरूपं रूपमस्तीतिकृत्वा, अजीवाः 'द्विविधाः उक्तभेदतो द्विविधाः भवे'त्ति भवेयुः, तत्रापि 'अरूवि'ति अरूपिणः 'दशधा' दशप्रकाराः 'उक्ताः' प्रतिपादितास्तीर्थकृदादिभिरिति शेषः, पश्चानिर्दिष्टत्वेऽपि चोक्तन्यायतोऽनन्तरत्वाद्वाऽमीषां प्रथमत उपादानं, रूपिणः 'अपिः' पुनरर्थस्ततश्च रूपिणः पुनः 'चतुविधाः' चतुष्प्रकारा उभयत्राजीवा इति प्रक्रमः । तत्रारूपिणो दशविधानाह-धारयति गतिपरिणतजीवपुद्गलांस्तत्वभाव इति धर्मः अस्तयश्चेह प्रदेशास्तेषां चीयत इति कायः-सङ्घातोऽस्तिकायस्ततो धर्मश्चासावस्तिकायश्च धर्मास्तिकायः-सकलदेशप्रदेशानुगतसमानपरिणतिमद्विशिष्टं द्रव्यं, तस्य-धर्मास्तिकायस्य दिश्यते-प्रदेशा|पेक्षया समानपरिणतरूपत्वेऽपि देशापेक्षायां असमानपरिणतिमाश्रित्य विशिष्टरूपतया विवक्ष्यते-उपदिश्यत इति
dain Education International
For Personal & Private Use Only
www.jainelibrary.org