________________
अथ जीवाजीवविभक्तिरितिनाम षट्त्रिंशत्तममध्ययनम् ।
व्याख्यातमनगारमार्गगतिनामकं पञ्चत्रिंशमध्ययनम् , अधुना पत्रिंशमारभ्यते, अस्य चायमभिसम्बन्धःअनन्तराध्ययने हिंसापरिवर्जनादयो भिक्षुगुणा उक्ताः, ते च जीवाजीवखरूपपरिज्ञानत एवासेवितुं शक्यन्त इति तज्ज्ञापनार्थमिदमारभ्यते, अस्य चोपक्रमादीनि चत्वार्यनुयोगद्वाराणि, तत्र च भाष्यगाथाः-"तस्स अणुओगदारा चत्तारि उवक्कमे य निक्खेवे । अणुगम नए य तहा उवक्कमो छविहो तत्थ ॥१॥ नामं ठवणादविए खेत्ते काले तहेव
भावे य । एसो सत्थोवकमो वन्नेयवो जहक्कमसो॥२॥ अहवऽणुपुचीणामप्पमाणवत्तवया य बोद्धचा । अत्यहिगारे है तत्तो छट्टे य तहा समायारो ॥३॥ सवे जहक्कमेणं वन्नेऊणं इमो समोयारो। अणुपुबीए उ तहिं उक्तित्तणपुची ओतरइ ॥४॥ सा इह पुत्वाणुपुवी पच्छणुपुची तहा अणणुपुत्वी। पुवणुपुची छत्तीसइयं इमं पच्छ पुण पढमे ॥५॥
१ तस्य अनुयोगद्वाराणि चत्वारि उपक्रमश्च निक्षेपः । अनुगमो नयश्च तथा उपक्रमः षडिधस्तत्र ॥ १॥ नाम स्थापना द्रव्यं क्षेत्रं कालः | तथैव भावश्च । एष शास्त्रीयोपक्रमो वर्णयितव्यो यथाक्रमम् ॥ २॥ अथवा आनुपूर्वी नाम प्रमाणं वक्तव्यता च बोद्धव्या । अर्थाधिकारश्च | 6 ततः षष्ठश्च तथा समवतारः ॥ ३ ॥ सर्वान् यथाक्रमं वर्णयित्वा अयं समवतारः (कार्यः) । तत्र आनुपू. उत्कीर्तनानुपूर्व्यामवतरति | PI॥४॥ सेह पूर्वानुपूर्वी पश्चानुपूर्वी तथा अनानुपूर्वी । पूर्वानुपूर्व्या षट्त्रिंशत्तमं इदं पश्चानुपूर्व्या पुनः प्रथमम् ॥ ५॥
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org