________________
अनगारग
उत्तराध्य. बृहद्वृत्तिः ॥६६८॥
तिमार्गा
झगिति तत्करणे बहुतरदोषसम्भवात् , तथा चागमः-"देहम्मि असंलिहिए सहसा धाऊहि खिजमाणाहिं । जायइ अट्टज्झाणं सरीरिणो चरमकालंमि ॥१॥ कदा ?-'कालधर्मे' आयुःक्षयलक्षणे मृत्युखभावे 'उपस्थिते' प्रत्या
सन्नीभूते, तथा 'त्यक्त्वा' अपहाय 'माणुसं'ति मानुषीं-मनुष्यसम्बन्धिनी 'बुन्दि' शरीरं 'प्रभुः' वीर्यान्तरायक्ष६ यतो विशिष्टसामर्थ्यवान् 'दुक्खे'त्ति 'दुःखैः' शारीरमानसैः 'विमुच्यते' विशेषेण त्यज्यते, तनिवन्धनकर्मापग
मत इति भावः । कीदृशः सन् ? इत्याह-निर्ममः' अपगतममीकारः 'निरहङ्कारः' अहममुकजातीय इत्याधहङ्काररहितः, ईदृक्षः कुतः, यतो वीतरागः प्राग्वद् विगतरागद्वेषः, तथा 'अनाश्रवः' कर्माश्रवरहितो मिथ्यावादितद्धेत्वभावात् संप्राप्तः केवलज्ञानम्' उक्तरूपं 'शाश्वतं' कदाचिदव्यवच्छेदात् 'परिनिवृतः' अखास्थ्यहेतुकर्माभावतः सर्वथा स्वस्थीभूत इति विंशतिसूत्रभावार्थः। 'इति' परिसमासो, ब्रवीमीति पूर्ववत् । गतोऽनुगमो, नयाश्च प्राग्वत् ॥ इत्युत्तराध्ययनश्रुतस्कन्धटीकायां श्रीशान्त्याचार्यविरचितायां शिष्यहितायामनगारमार्गगतिनामकं पञ्चत्रिंशत्तममध्ययनं समाप्तम् ॥ ३५॥ इत्युत्तराध्ययनश्रुतस्कन्धे श्रीशान्याचार्यविहिता शिष्यहितानाम्नी अनगारमार्गगतिनामक पञ्चत्रिंशत्तमाध्ययनवृत्तिः।
१ देहेऽसंलिखिते सहसा धातुषु क्षीयमाणेषु । जायते आर्त्तध्यानं शरीरिणश्चरमसमये ॥ १ ॥
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org