SearchBrowseAboutContactDonate
Page Preview
Page 313
Loading...
Download File
Download File
Page Text
________________ एवंविधश्च सन् भिक्षुः 'विरतः' निवृत्तः स्यादिति शेषः, कुतः ? – ऋयो — मूल्येनान्यसम्बन्धिनस्तथाविधवस्तुनः | स्वीकारो विक्रयश्च - तस्यैवात्मीयस्य तथाविधवस्तुजातेनान्यस्य दानं क्रयश्च विक्रयश्च क्रयविक्रयमिति समाहार - स्तस्मात् पञ्चम्यर्थे सप्तमी, विषयसप्तमी वा तत्र च क्रयविक्रयविषये, 'विरतः' इति विरतिमानित्यर्थः । किमित्येवम् ? अत आह— क्रीणानः - परकीयं वस्तु मूल्येनाददानः क्रयोऽस्यास्तीति क्रयिको भवति - तथाविधेतर| लोकसदृश एव भवति, विक्रीणानश्च - खकीयं वस्तु तथैव परस्य ददद्वणिगू भवति, वाणिज्यप्रवृत्तत्वादिति भावः, अत एव च ' क्रयविक्रये' उक्तरूपे 'वर्त्तमानः' प्रवर्त्तमानो भिक्षुर्भवति न तादृशो, गम्यमानत्वाद्यादृशः सूत्राभिहितो भावभिक्षुरिति भावः । ततः किमित्याह - 'भिक्षितव्यं' याचितव्यं तथाविधं वस्त्विति गम्यते, 'न' नैव 'क्रेतव्यं' मूल्येन ग्रहीतव्यं, केन १ –भिक्षुणा, कीदृशा ? - भिक्षयैव वृत्तिः -वर्त्तनं निर्वहणं यस्यासौ भिक्षावृत्तिस्तेन, उक्तं हि - " संघं से जाइयं होइ नत्थि किंचि अजाइयं "ति, क्रयविक्रयवद्भिक्षाऽपि सदोषैव भविष्यतीति मन्द - धीर्मन्यते, तत आह- क्रयश्च विक्रयश्च क्रयविक्रयं व्यवच्छेदफलत्वादस्य तदेव महादोषमुक्तन्यायतः, लिङ्गव्यत्य - ग्रश्च प्राग्वत्, भिक्षया वृत्तिर्भिक्षावृत्तिः शुभं - इहलोकपरलोकयोः कल्याणं सुखं वा तदावहति - समन्तात्प्रापयतीति शुभावहा सुखावहा बा, अनेन क्रीतदोषपरिहार उक्तः, स चाशेषविशुद्धकोटिगत दोष परिहारोपलक्षणम् । १ सर्वे तस्य याचितं भवति नास्ति किश्विदद्याचितम् । Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.600236
Book TitleUttaradhyayansutram Part 03
Original Sutra AuthorVadivetal, Shantisuri
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1917
Total Pages408
LanguageSanskrit
ClassificationManuscript & agam_uttaradhyayan
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy