SearchBrowseAboutContactDonate
Page Preview
Page 31
Loading...
Download File
Download File
Page Text
________________ *SAARESSA*** अतिविनीततया प्रभुचित्ताक्षेपकारिणस्तिष्ठन्तीति सम्बन्धः, तथैनमपि भगवन्तं देवेन्द्रप्रमुखाः समस्तसुरासुरमनुजसमूहा इत्युपस्कारः, पठ्यते च-जहा चंदे गहाईए, चिटुंती पंजलीउडा। णमंसमाणा वंदंती, उद्धृत्तमणहारिणो ॥१॥"त्ति, अत्र यथा 'चन्द्रे' चन्द्रविषये ग्रहादिकास्तिष्ठन्तीति(न्ति)प्राअलिपुटाः, कोऽर्थः-तदायत्यै(ताए)वासते, अन्यच्च-नमस्यन्तः प्रक्रमात्तमेव 'वन्दन्ते' स्तुवन्ति, अनेन तेषां भक्तियुक्तितामाह, 'वंदंतीउद्धृत्त'त्ति सन्धिप्रयोगेण इतिशब्दान्तर्भावादितीत्येवं प्रक्रमात्काश्यपं तिष्ठन्ति प्राअलिपुटास्तं च नमस्यन्तो वन्दन्ते, के इत्याह-'उद्धत्तमणहारिणो'त्ति औद्धत्यम्-अहङ्कारस्तत्प्रधानं मन औद्धत्यमनस्तद्धरणशीलाः औद्धत्यमनोहारिणः-अत्यन्तशान्तचित्तवृ|त्तयो, यतय इत्यर्थः, पूर्वापरनिपातस्यात्रातन्त्रत्वेन वा मनऔद्धत्यहारिणः, औद्धत्यग्रहणं चास्यैव सकलदोषमूल त्वात् , पठन्ति च–'उद्धृत्तुमणगारिणो'त्ति अत्र चोद्धर्तुम्-उत्क्षेप्तुं भवपङ्कमग्नमात्मानमिति गम्यते, अगारिणोद गृहिणस्तद्विपरीता अनगारिणो-यतयः, क्रियाकारकयोजना प्राग्वत् , इह च धर्मार्थिनामेव अभ्यर्हितत्वात् काश्यपो धर्ममुखमित्यभिप्रायः । अनेन प्रश्नचतुष्टयप्रतिवचनमुक्तं, सम्प्रति पञ्चमं प्रश्नमधिकृत्याह-'अजाणग'त्ति अज्ञा न तत्त्ववेदिन इत्युक्तं भवति, के ते?-यज्ञवादिनो ये भवतः पात्रत्वेनाभिमताः, कासामित्याह-विजामाहणसंपय'त्ति सूत्रत्वात्सुब्व्यत्ययः 'विद्याब्राह्मणसम्पदा' तत्र च विद्यते-ज्ञायत आभिस्तत्त्वमिति विद्या-आरण्यकब्रह्माण्डपुराणात्मिकास्ता एव ब्राह्मणसम्पदो विद्याब्राह्मणसम्पदः, तात्त्विकब्राह्मणानां हि निष्किञ्चनत्वेन विद्या एव सम्पदः, तद्वि Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.600236
Book TitleUttaradhyayansutram Part 03
Original Sutra AuthorVadivetal, Shantisuri
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1917
Total Pages408
LanguageSanskrit
ClassificationManuscript & agam_uttaradhyayan
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy