________________
उत्तराध्य.
धर्म उक्तः, तथा च तद्वचः-"सत्यं तपः सन्तोषः संयमश्चारित्रमार्जवं क्षमा धृतिः श्रद्धा हिंसेत्येतहशविधमिहा यज्ञीया
है धामे"ति, तत्र च धामशब्देन धर्म एव विवक्षितः, एतदनुवाद्युक्तरूपमेवाग्निहोत्रमिति, तथा यज्ञः प्रस्तावाद्भावबृहद्वृत्तिः
ध्यय.२५ यज्ञस्तदर्थी 'वेयसित्ति वेदेन हेतुनाऽस्यति-अशुभानि कर्माणि क्षिपतीति निरुक्तविधिना वेदसो-यागः, उक्तं च॥५२५॥
निर्घण्टे-"अध्वरो वेपो वेषो मखो वेदा वितथः” इत्यादि, तेषां मुखम्-उपायः, ते हि सत्येव यज्ञार्थिनि प्रवर्तन्त इति । नक्षत्राणां 'मुखं प्रधानं चन्द्रः, तस्यैव तदधिपतित्वात् । धर्माणां 'काश्यपः' भगवानृषभदेवः 'मुखम्' उपायः कारणात्मकः, तस्यैवादितत्प्ररूपकत्वात् , तथा चारण्यकम्-"ऋषभ एव भगवान् ब्रह्मा, तेन भगवता ब्रह्मणा स्वयमेव चीर्णानि ब्रह्माणि, यदा च तपसा प्राप्तः पदं यद् ब्रह्मकेवलं तदा च ब्रह्मर्षिणा प्रणीतानि, कानि पुनस्तानि ब्रह्माणि?" इत्यादि,किञ्च-भवतां ब्रह्माण्डपुराणमेव सर्गादिपुराणलक्षणोपेतत्वात्सकलपुराणज्येष्ठम् , उक्तञ्च-"नवनीतं यथा दध्नश्चन्दनं मलयादिव । ब्रह्माण्डं वै पुराणेभ्यस्तथा प्राहुर्मनीषिणः ॥१॥” तद्वचस्त्विदम्-"इह हि इक्ष्वाकुकुलवंशोद्भवेन नाभिसुतेन मरुदेव्या नन्दनेन महादेवेन ऋषभेण दशप्रकारो धर्मः स्वयमेव चीर्णः, केवलज्ञानलम्भाच्च महर्षिणो ये परमेष्ठिनो वीतरागाः स्नातका निर्ग्रन्था नैष्ठिकास्तेषां प्रवर्तित आख्यातः प्रणीतस्त्रेतायामादा"वित्यादि, ॥५२५॥ काश्यपस्यैव माहात्म्यख्यापनतो धर्ममुखत्वं समर्थयितुमाह-यथा चन्द्र ग्रहादिकाः, आदिशब्दान्नक्षत्रादिपरिग्रहः, 'पंजलीउड'तिप्राग्वत्कृतप्राञ्जलयस्तु 'वन्दमानाः' स्तुवन्तो 'नमस्यन्तो नमस्कुर्वन्तः 'उत्तम प्रधानं 'मनोहारिणः'
CRACROSAGAROSAROSA
GAR
dan Education International
For Personal & Private Use Only
www.janelibrary.org