________________
उत्तराध्य.
दृष्टिः' सम्यग्दर्शनवान्निश्चयतो यत्सम्यक्त्वं तन्मौनमिति चरित्री अगारवासेनागारपाशेन वा प्राकृतत्वात्तृतीयार्थे 3 अनगारग
है पञ्चमी विशेषेण-तत्प्रतिषन्धपरित्यागरूपेण निर्मुक्तः-त्यक्तो विनिर्मुक्तोऽनगार इति प्रक्रमः, तथा मार्गगत्योर्द्वयोरपि, बृहद्वृत्तिः
सि.तिमार्गापूर्वत्र-मोक्षमार्गगतिनामन्यध्ययने उद्दिष्ट:-कथितः पूर्वोद्दिष्टः, इत्थमेषां चतुर्विधत्वेन केनेह प्रकृतमित्याह-अधिकारः ॥६६॥ 'भावमग्गि'त्ति सुव्यत्ययाद् 'भावमार्गेण' सम्यग्दर्शनज्ञानचारित्रलक्षणेन सिद्धिगत्या चार्थाद्भावगत्या उपलक्षणत्वा-1
द्भावानगारेण च ज्ञातव्य इति गाथात्रयावयवार्थः । गतो नामनिष्पन्नो निक्षेपः, सम्प्रति सूत्रानुगमे सूत्रमुच्चारणीयं, तच्चेदम्
सुणेह मे एगमणा, मग्गं सव्वन्नु (बुद्धेहि) देसियं । जमायरंतो भिक्खू , दुक्खाणंतकरो भवे ॥१॥ 'शृणुत' आकर्णयत 'मे' मम कथयत इति शेषः, एकाग्रमनसः, कोऽर्थः ?-अनन्यगतचित्ताः सन्तः शिष्या इति शेषः, किं तत् ? इत्याह-मार्गम्' उक्तरूपं प्रक्रमान्मुक्तेर्बुधैः-अवगतयथास्थितवस्तुतत्त्वैरुत्पन्नकेवलैरहद्भिः श्रुतकेवलिभिर्गणधरादिभिर्वेत्युक्तं भवति, देशितं-प्रतिपादितमर्थतः सूत्रतश्च, तमेव विशेषयितुमाह-'यम्' इति मार्गम्
॥६६ ॥ आचरन्' आसेवमानः 'भिक्षुः' अनगारः 'दुःखानां शारीरमानसानामन्तः-पर्यन्तस्तत्करणशीलोऽन्तकरः 'भवेत्' स्यात्, सकलकर्मनिर्मूलनत इति भावः, तदनेनासेव्यासेवकसम्बन्धेनानगारसम्बन्धित्वं मार्गस्य तत्फलं च मुक्तिगतिरिति दर्शितं, ततश्चानगारमार्ग तद्गतिं च शृणुतेत्यर्थत) उक्तं भवतीति सूत्रार्थः॥ यथाप्रतिज्ञातमेवाह
Jain Education International
For Personal & Private Use Only
www
b
rary.org