________________
अथ अनमारमार्गमतिरितिनाम पंचत्रिंशत्तममभ्ययनम् ।
व्याख्यातं लेश्याध्ययननामकं चतुस्त्रिंशमध्ययनम् अधुना पञ्चत्रिंशमारभ्यते, अस्य चायमभिसम्बन्धःअनन्तराध्ययने लेश्या अभिहिताः, तदभिधाने चायमाशयः - अशुभानुभावलेश्यात्यागतः शुभानुभावा एव लेश्या अधिष्ठातव्याः, एतच्च भिक्षुगुणव्यवस्थितेन सम्यग्विधातुं शक्यं, तद्व्यवस्थानं च तत्परिज्ञानत इति तदर्थमिदमारभ्यते, एतत्सम्बन्धागतस्य चास्यानुयोगद्वारचतुष्टयं प्राग्वद्वर्णनीयं यावन्नामनिष्पन्ननिक्षेपे अनगारमार्गगतिरिति नाम, अतोऽनगारमार्गगतीनां त्रयाणामपि पदानां निक्षेपायाह नियुक्तिकृत् अणगारे निक्खेवो चउविहो दुविह होइ नायहो ।
॥ ५४६ ॥
| जाणगभवियसरीरे तवइरित्ते अ निण्हगाईसु । भावे सम्मदिट्टी अगारवासा विणिम्मुको ॥ ५४७ ॥ मग्गगईणं दुण्हवि पुव्वुद्दिट्ठो चउक्कनिक्खेवो । अहिगारो भावमग्गे सिद्धिगईए उ नायवो ॥ ५४८ ॥
गाथात्रयं स्पष्टमेव, नवरं तद्व्यतिरिक्तश्च निह्नवादिषु, आदिशब्दादन्येष्वपि चरित्रपरिणामं विना गृहाभाववत्सु, निर्द्धारणे सप्तमी, ततश्च यस्तेषु मध्येऽनगारत्वेन लोके रूढ इत्युपस्कारः, स तयतिरिक्तो द्रव्यानगारो, भावे 'सम्य
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org