________________
उत्तराध्य.
लेश्याध्ययनं. ३४
बृहद्वृत्तिः ॥६६२॥
SSSSSSSCRkstak
कुमारा जाव वेमाणिय"त्ति, अनेनान्तर्मुहूर्तावशेष आयुषि परभवलेश्यापरिणाम इत्युक्तं भवतीति सूत्रत्रयार्थः ॥ इत्थं लेश्यानां नामाद्यभिधाय साम्प्रतमध्ययनार्थमुपसंजिहीर्षुरुपदेशमाहतम्हा एयासिलेसाणं,अणुभावं वियाणिया।अप्पसत्थाउ वजित्ता, पसत्थाओ अहिट्ठए मुणि॥६॥ त्तिबेमि॥
॥ लेसज्झयणं ॥३४॥ 'तम्ह'त्ति यस्मादेता अप्रशस्ता दुर्गतिहेतवः प्रशस्ताश्च सुगतिहेतवस्तस्मात् 'एतासाम्' अनन्तरमुक्तानां लेश्यानाम् 'अनुभागम्' उक्तरूपं 'विज्ञाय' विशेषेणावबुध्य अप्रशस्ताः कृष्णाद्यास्तिस्रो वर्जयित्वा 'प्रशस्ताः' तैजस्याद्यास्तिस्रः 'अधितिष्ठेत्' भावप्रतिपत्त्याऽऽश्रयेन्मुनिरिति शेष इति सूत्रार्थः । 'इति' परिसमाप्तौ, ब्रवीमीति पूर्ववत्, नयाश्च प्राग्वत् ॥ इति श्रीशान्त्याचार्यकृतायां शिष्यहितायामुत्तराध्ययनटीकायां चतुस्त्रिंशं लेश्याध्ययनं समाप्तम् ॥ ३४ ॥
DSTRE-STREPTRASTRASTRATRASTRATREERS ५ इति श्रीमदुत्तराध्य. शिष्य. श्रीशान्तिसू० वृत्तौ चतुस्त्रिंशत्तमं लेश्याध्ययनं समाप्तम् ॥
॥३२॥
Jain Education
Wonal
For Personal & Private Use Only
www.jainelibrary.org