________________
उत्तराध्य.
बृहद्वृत्तिः
॥६५४॥
अशुभानां, कोऽर्थः ?-कृष्णनीलकापोतानां, गन्ध इति प्रक्रमः, इह च लेश्यानामप्रशस्तत्वं गन्धस्याशुभत्वे हेतुरिति लेश्याध्यतद्विशेषादनुक्तोऽप्यस्य विशेषोऽवगम्यत इति नोक्तः । यथा सुरभिकुसुमानां-जातिकेतक्यादिसम्बन्धिनां सुगन्ध
यनं. ३४ पुष्पाणां गन्धः-परिमलः सुरभिकुसुमगन्धः, तथा गन्धाश्च-कोष्ठपुटपाकनिष्पन्ना वासाश्च-इतरे गन्धवासाः, इह चैतदङ्गान्येवोपचारादेवमुक्तानि, तेषां, पाठान्तरतश्च गन्धानां च, 'पिष्यमाणानां संचूर्ण्यमानानां यथा गन्ध इति प्रक्रमः, तथा चातिप्रबलतरोऽसौ प्रादुर्भवतीत्येवमभिधानम्, 'अतोऽपि' एतत्प्रकारादपि गन्धाद् अनन्तगुणः अतिशयसुगन्धितया प्रशस्तलेश्यानां 'तिसृणामपि' तैजसीपद्मशुक्लानां गन्ध इति प्रक्रमः, इहापि प्रशस्तत्वविशेषाद्गन्धविशेषोऽनुमीयत इति नोक्त इति सूत्रद्वयार्थः ॥ सम्प्रति स्पर्शमाह
जह करगयस्स फासो गोजिन्भाए व सागपत्ताणं । इत्तोवि अणंतगुणो लेसाणं अप्पसत्थाणं ॥१८॥ | जह बूरस्सवि फासो नवणीयस्स व सिरीसकुसुमाणं । इत्तोवि अणंतगुणो पसत्थलेसाण तिण्हंपि ॥१९॥
यथा 'करगयस्स'त्ति क्रकचस्य करपत्रस्य स्पर्शो गोर्जिा गोजिह्वा तस्या वा यथा वा शाको-वृक्षविशेषस्तत्पत्राणां स्पर्श इति प्रक्रमः, 'अतोऽपि' एतत्प्रकारादपि स्पर्शादनन्तगुणः अत्यतिशायितया यथाक्रमं लेश्यानामप्रशस्तानामाद्यानां तिसृणां प्रक्रमात्स्पर्शोऽतिकर्कश इति हृदयम् । यथा 'बूरस्य वा' प्रतीतस्य स्पर्शः 'नवनीतस्य'
નીઝ ક્રીયા म्रक्षणस्य, यथा वा शिरीषो-वृक्षविशेषस्तत्कुसुमानामुभयत्र यथा स्पर्श इति प्रक्रमः, 'अतोऽपि' एतत्प्रकारादपि
dan Education International
For Personal & Private Use Only
www.jainelibrary.org