________________
स्पर्शाद 'अनन्तगुणः' अतिसुकुमारतया यथाक्रमं प्रशस्त लेश्यानां 'तिसृणामपि' उक्तरूपाणा स्पर्श इति प्रक्रमः, इह दाच यदनेकदृष्टान्तोपादानं तन्नानादेशजविनेयानुग्रहार्थ, क्वचिद्धि किञ्चित्प्रतीतमिति, यद्वा निगदितोदाहरणेषु वर्णादि-I तारतम्यसम्भवाल्लेश्यानां स्वस्थानेऽपि वर्णादिवैचित्र्यज्ञापनार्थमिति सूत्रद्वयार्थः ॥ परिणामद्वारमाह
तिविहो व नवविहो वा सत्तावीसइविहिक्कसीओ वा । दुसओ तेयालो वा लेसाणं होइ परिणामो २० | त्रिविधो नवविधो वा 'सत्तावीसइविहेक्सीओ वत्ति विधशब्दो वाशब्दश्चोभयत्र संबध्यते, ततश्च सप्तविंशतिविध एकाशीतिविधो वा 'दुसओ तेआलो वत्ति अत्रापि विधशब्दस्य सम्बन्धात् त्रिचत्वारिंशद्विशतविधो वा |लेश्यानां भवति परिणामः-तत्तद्रूपगमनात्मकः, इह च 'त्रिविधः' जघन्यमध्यमोत्कृष्टभेदेन 'नवविधः' यदैषामपि जघन्यादीनां स्वस्थानतारतम्यचिन्तायां प्रत्येक जघन्यादित्रयेण गुणना एवं पुनस्त्रिकगुणनया सप्तविंशतिविधत्वमेकाशीतिविधत्वं त्रिचत्वारिंशद्विशतविधत्वं च भावनीयम् । आह-एवं तारतम्यचिन्तायां कः सङ्ख्यानियमः १, उच्यते, एवमेतत् , उपलक्षणं चैतत् , तथा च प्रज्ञापना-“कण्हलेसा णं भंते! कतिविधपरिणामं परिणमति ?, गोयमा ! तिविहं वा नवविहं वा सत्तावीसइविहं वा एक्कासीइविहं वावि तेयालदुसयविहं वा बहुं वा बहुविहं वा परिणामं परिणमति, एवं जाव सुक्कलेसा" इति सूत्रार्थः ॥ उक्तः परिणामः, सम्पति लक्षणमाह, तत्र चपंचासवप्पमत्तो तीहिं अगुत्तो छसू अविरओ य। तिव्वारंभपरिणओ खुद्दो साहस्सिओ नरो॥२१॥ निड-
dan Education International
For Personal & Private Use Only
www.jainelibrary.org