________________
अतिशयकषाय इत्याशयः। यथा परिणतं-परिपक्वं यदाम्रकं तद्रसः पक्ककपित्थस्य वापि याशको रसोऽतोऽप्यनन्तगणो
रसस्तु 'तेऊए'त्ति तेजोलेश्याया ज्ञातव्यः आम्लः किञ्चिन्मधुरश्चेत्यैदम्पर्य । बरवारुणी-प्रधानसुरा तस्या वारसो याहदशक इति योगः 'विविधानां वा' नानाप्रकाराणाम् 'आसवानां' पुष्पप्रसवमद्यानां वा यादृशको रस इति सम्बन्धः, |'महुमेरयस्स व रसो'त्ति मधु-मद्यविशेषो मैरेयं-सरकस्तयोः समाहारे मधुमैरेयं तस्य वा रसो यादृशकोऽतो वरवा
रुण्यादिरसात्पद्मायाः प्रक्रमाद्रसः 'परकेणं'ति अनन्तानन्तगुणत्वात्तदतिक्रमेण वर्तत इति गम्यते, अयं च किञ्चि| दम्लकषायो माधुर्यवांश्चेति भावनीयं, पाठान्तरतोऽप्यनन्तगुणो रसस्तु पद्माया ज्ञातव्यः । खजूरं च-पिण्डखजूरादि मृद्वीका च-द्राक्षा एतद्रसः तथा 'क्षीररसः' प्रतीतः खण्डं च-इक्षुविकारः शर्करा च-काशादिप्रभवा तद्रसो वा
यादृश इति शेषः, अतोऽप्यनन्तगुणो रसस्तु शुक्लाया ज्ञातव्योऽत्यन्तमधुर इति गर्भ इति सूत्रपकार्थः ॥ उक्तो रसः, ६ सम्प्रति गन्धमाह
जह गोमडस्स गंधो सुणगमडस्स व जहा अहिमडस्स । इत्तो वि अणंतगुणो लेसाणं अप्पसत्थाणं ॥१६॥ जह सुरहिकुसुमगंधो गंधवासाण पिस्समाणाणं । इत्तोवि अणंतगुणो पसत्थलेसाण तिण्हंपि ॥१७॥ __ यथा गवां मृतकं-मृतकशरीरं तस्य गन्धः श्वमृतकस्य वा तथा यथाहिः-सर्पस्तन्मृतकस्य गन्ध इति सम्बन्धः, सूत्रत्वान्मृतकशब्दे कलोपः 'अतोऽपि' एतत्प्रकारादपि गन्धादनन्तगुणोऽतिदुर्गन्धतया लेश्यानाम् 'अप्रशस्तानाम्'
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org