________________
4444
॥६४८॥
उत्तराध्य. ‘तम्ह’त्ति यस्मादेवंविधाः प्रकृतिबन्धादयस्तस्मात् 'एतेषाम्' अनन्तरमुक्तानां 'कर्मणां' ज्ञानावरणादीनामनुभागानुपलक्षणत्वात्प्रकृतिबन्धादींश्च 'विज्ञाय' विशेषेण - कटुकविपाकत्वलक्षणेन भवहेतुत्वलक्षणेन वाऽवबुध्य, अनुभा - बृहद्वृत्तिः गानामेव च साक्षादुपादानमेषामेवाशुभानां प्रायो भवनिर्वेदहेतुत्वात्, 'एषाम्' इति कर्मणां 'संवरे' अनुपात्तानामुपादाननिरोधे 'चः' समुच्चये 'एवे' त्यवधारणे भिन्नक्रमस्ततः 'क्षपणे च' उपात्तानां निर्जरणे 'जए'त्ति 'यतेतैव' यत्तं कुर्यादेव, कोऽसौ ? - 'बुधः' तत्त्वावगमवानिति सूत्रार्थः ॥ अमुमेवार्थमनुवादद्वारेण व्यक्तीकर्त्तुमाह निर्युक्तिकृत् - | पगइठिई अणुभागं पएसकम्मं च सुट्टु नाऊणं । एएसिं संवेर खलु खवणे उ सयावि जइअवं ॥ ५३३॥ स्पष्टै । 'इति' परिसमाप्तौ ब्रवीमीति पूर्ववत् । इत्यवसितोऽनुगमः, सम्प्रति नयाः, तेऽपि प्राग्वत् ॥ इत्युत्त|राध्ययनश्रुतस्कन्धटीकायां श्रीशान्त्याचार्यविरचितायां त्रयस्त्रिंशमध्ययनं समाप्तमिति ॥ ३३ ॥
Jain Education International
হ हैं हैं हैं हैं हैं हैं हैं Year Yes YesYYYYYYYYYYYestosteronomicale
इति श्रीशान्त्याचार्यकृतायां शिष्यहितायामुत्तरा०टी० कर्मप्रकृत्यभिधं त्रयस्त्रिंशमध्ययनं ॥
For Personal & Private Use Only
कर्मप्रकृ
त्यध्य. ३३
॥६४८ ॥
www.jainelibrary.org