SearchBrowseAboutContactDonate
Page Preview
Page 275
Loading...
Download File
Download File
Page Text
________________ भागवर्तित्वादनन्तभाग गरोपमसप्तभागौ द्वौ पल्योपमासङ्खयेयभागन्यूनौ वैक्रियषट्कस्य सागरोपमसहस्रभागौ द्वौ पल्योपमासङ्खधेयभागन्यूनौ | आहारकतदङ्गोपाङ्गतीर्थकरनाम्नामन्तःसागरोपमकोटीकोटी, ननूत्कृष्टाऽपि एतावत्येवासां तिसृणां स्थितिरभिहिता, सत्य, तथापि ततः संङ्खयेयगुणहीनत्वेनास्या जघन्यत्वमिति सम्प्रदायः, कृतं प्रसङ्गेन प्रकृतं प्रस्तुम इति, तत्र यदुक्तं प्रदेशाग्रं क्षेत्रकालौ च भावं चो(चात उत्तरं शूण्विति तत्र प्रदेशाग्रं क्षेत्रकालौ चाभिहितो, सम्प्रति भावमभिधातुमाह सिद्धाणणंतभागो, अणुभागा हवंति उ । सव्वेसुवि पएसग्गं, सव्वजीवेसु (स) इच्छियं ॥ २४ ॥ 'सिद्धानाम्' मुक्तानामनन्तभागवर्तित्वादनन्तभागः 'अनुभागाः' रसविशेषा भवन्ति 'तुः' पूरणे' अयं चानन्तभागोऽनन्तसङ्ख्य एवेति, अनेनैषामानन्त्यमेवेत्थं विशिष्टमुक्तं, सम्प्रति प्रदेशपरिमाणमाह-सर्वेष्वपि प्रक्रमादनुभागेषु प्रदिश्यन्त इति प्रदेशा-बुद्ध्या विभज्यमानास्तदविभागैकदेशास्तेषामग्रं प्रदेशाग्रं 'सबजीवेसुनिज्झि(इच्छि)य'ति 'सर्वजीवेभ्यः भव्याभव्येभ्योऽतिक्रान्तं ततोऽपि तेषामनन्तगुणत्वेनाधिकत्वादिति सूत्रार्थः ॥ एवं प्रकृतिप्रदर्शनेन प्रकृतिबन्धप्रदेशाग्राभिधानेन च प्रदेशबन्धं कालोक्त्या च स्थितिबन्धं अनेन चानुभागमभिधाय यदर्थमेते प्ररूपितास्तदुपदर्शयन्नुपसंहारव्याजेनोपदेष्टुमाहतम्हा एएसि कम्माणं, अणुभागे वियाणिया। एएसिं संवरे चेच, खवणे य जए बुहे ॥२६॥ त्तिबेमि ॥ ॥ कम्मपयडी॥३३॥ , सम्प्रति प्रदेशपरिमाणमामनिझि(इच्छि)यति मन Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.600236
Book TitleUttaradhyayansutram Part 03
Original Sutra AuthorVadivetal, Shantisuri
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1917
Total Pages408
LanguageSanskrit
ClassificationManuscript & agam_uttaradhyayan
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy