________________
ESARKARI NAAGIC
। उदहीसरिनामाणं, तीसई कोडिकोडीओ। उक्कोसिया होइ ठिई, अंतमुहुत्तं जहन्निया ॥ १९॥ आवरणिजाण दण्हपि, वेयणिज्जे तहेव य । अंतराए य कम्मंमि, ठिई एसा वियाहिया ॥२०॥ उयहीसरिसनामाणं, सत्तर कोडिकोडिओ। मोहणिजस्स उक्कोसा, अंतमुहुत्तं जहन्निया ॥२१॥ तित्तीससागरोवमा, उक्कोसेणं वियाहिया। ठिई उ आउकम्मस्स, अंतमुहुत्तं जहन्निया ॥ २२ ॥ उदहीसरिसनामाणं, वीसई कोडिकोडिओ। नामगोआण उक्कोसा, अंतमुहुत्तं जहन्निया ॥ २३ ॥ | उदधिः-समुद्रस्तेन सदृक्-सदृशं नाम-अभिधानमेषामुदधिसदृग्नामानि-सागरोपमाणि तेषां त्रिंशत्कोटीकोट्यः | । 'उकोसिय'त्ति उत्कृष्टा भवति 'स्थितिः' अवस्थानं, तथा मुहूर्त्तस्यान्तरं अन्तर्मुहूर्त, मुहूर्तमपि न्यूनमित्यर्थः, जघन्यवर
जघन्यका प्रक्रमात्स्थितिः । केपामित्याह-'आवरणीययोः' अन्यत्रैतद्यपदेशाश्रवणाज्ज्ञानदर्शनविषययोः, ततो ज्ञाना|वरणीयदर्शनावरणीयोयोरपि, वेदनीये तथैव च अन्तराये च कर्मणि स्थितिरेवं व्याख्याता, इह च षष्ठीप्रक्रमेऽपि वेदनीय इत्यादौ सप्तम्यभिधानमनयोरर्थस्य तत्त्वतोऽभिन्नत्वात् , उक्तं हि-"राजा भर्ता मनुष्यस्य,तेन राज्ञः स उच्यते। वृक्षस्तिष्ठति शाखासु, ता वा तत्रेति तस्य ताः॥१॥” तथा इति वेदनीयस्यापि जघन्यस्थितिरन्तर्मुहुर्तमानैव सूत्रकारेणोक्ता, अन्ये तु 'जघन्या(अपरा) द्वादशमुहूर्ता वेदनीयस्येति (तत्त्वा. अ.८सू. १९) द्वादशमुहर्तमानामेवैतामिच्छन्ति. तदभिप्रायं न विद्मः। उदधिसदृशनाम्नां सप्ततिकोटीकोट्यो मोहनीस्योयत्कृष्टा अन्तर्मुहूर्त जघन्यका। त्रयस्त्रिंशत्सागरो
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org