________________
उत्तराध्य.
वृत्तिः ॥६४६॥
वाधिकृत्य नियमेन व्याख्येयमे केन्द्रियाणामन्यथाऽपि सम्भवात्, तथा चागमः- “जीवे णं भंते ! तेयाकम्मापोग्गलाणं गहण करेमाणे किं तिदिसिं करेति चउद्दिसिं करेइ पंचदिसिं करेइ छद्दिसिं करेइ ?, गोयमा ! सिय तिदिसिं सिय चउहिसिं सिय पंचदिसिं सिय छद्दिसिं करेति, एगिंदिया णं भंते! तेयाकम्मपोग्गलाणं गहणं करेमाणे किं तिदिसिं जाव छद्दिसिं करेति ?, गोयमा ! सिय तिदिसिं सिय चउद्दिसिं सिय पंचदिसिं सिय छद्दिसिं करेइ, वेंदियतेंदियचउरिंदियपंचिंदिया नियमा छद्दिसिं” ति, तच्च पदिग्गतं सर्वेष्वपि न तु कतिपयेषु प्रदेशेष्वपि, अर्थादाकाशस्यो कन्यायादात्मावष्टब्धेषु कर्म सर्वजीवानां सङ्ग्रहे योग्यं भवति, ते वा तत्संगृह्णन्ति, तत्स्थकर्मपुद्गलान् प्रत्यात्मनो ग्रहणहेत्ववि - शेषात् तथा 'सर्व' समस्तं ज्ञानावरणादि न त्वन्यतरदेव, आत्मा हि सर्वप्रकृतिप्रायोग्यान् पुद्गलान् सामान्येनादाय तानेवाध्यवसाय विशेषात् पृथक् पृथग् ज्ञानावरणादिरूपत्वेन परिणमयति, तचैवंविधं कर्म संगृहीतं सत् किं कैश्विदेवात्मप्रदेशैर्वद्धं भवति यद्वा सर्वेणात्मना ? इत्याह- 'सर्वेण' समस्तेन प्रक्रमादात्मना न तु कियद्भिरेव तत्प्र - देशैः बद्धं-क्षीरोदकवदात्मप्रदेशैः श्लिष्टं तदेव बद्धकम्, अन्योऽन्यसम्बद्धतया हि शृङ्खलावयवानामिव परस्परोपका| रित्वादात्मनः प्रदेशानां सहैव योगोपयोगी भवतो, न त्वेकैकशः, तन्निमित्तकश्च कर्मबन्ध इति सोऽपि सर्वेणैवात्मना, ग्रहणपूर्वकत्वाच्च बन्धस्य तदप्येवमेव, यद्वा तद् गृहीतं सत् केन सह कियत्कथं वा बद्धं भवति ? इत्याह'ससुवि पएसेसु' सुव्यत्ययात्सर्वैरपि प्रदेशैः प्रक्रमादात्मनः 'सर्व' सर्वप्रकृतिरूपं 'सर्वेण' गम्यमानत्वात्प्रकृतिस्थि| त्यादिना प्रकारेण बद्धकमिति सूत्रार्थः ॥ सम्प्रति कालमाह -
Jain Education International
For Personal & Private Use Only
कर्मप्रकृ
त्यध्य. ३३
॥६४६॥
www.jainelibrary.org