________________
व्याख्या-ग्रन्थिप्रसक्तानां-घनरागद्वेषपरिणामग्रन्थि कर्कशघनरूढग्रन्थिसमं तथाविधपरिणामाभावतोऽमिन्दानानां सत्त्वानां यो बन्धः सोऽनाद्यनन्तः-आद्यन्तविकलो ज्ञेयः, सिद्धानां पुनः भविष्यत्सिद्धीनां बन्धोऽनादिरपि 'अन्त' इति सान्तस्तथाविधपरिणामतो.व्याख्यातो भगवद्भिरिति सूत्रार्थः ॥ सम्प्रति क्षेत्रमाह- .. | सव्वजीवाण कम्मं तु, संगहे छद्दिसागयं । सव्वेसुवि पएसेसु, सव्वं सव्वेण बद्धगं ॥१८॥ | सर्वे-एकेन्द्रियाद्यशेषभेदास्ते च ते जीवाश्च तेषां 'कर्म' ज्ञानावरणादि 'तुः' पूरणे सङ्ग्रहः-सङ्ग्रहणक्रिया तत्र योग्यं भवतीतिशेषः, यदिवा सर्वजीवा 'ण'ति वाक्यभूषायां कर्म 'संगहे'त्ति संगृह्णन्ति, कीदृशं सदित्याह-'छद्दिसागय'न्ति षण्णां दिशानां समाहारः षदिशं तत्र गतं-स्थितं षड्दिशागतम् , अत्र चतस्रो दिशः पूर्वादय ऊो६||धोदिगद्वयं चेति षड् भवन्ति, इदं चात्मावष्टब्धाकाशप्रदेशापेक्षयोच्यते, यत्र ह्याकाशे जीवोऽवगाढस्तत्रैव ये कर्म-1BI
पुद्गलास्ते रागादिस्नेहगुणयोगादात्मनि लगन्ति न क्षेत्रान्तरावगाढाः, भिन्नदेशस्य तद्भावपरिणामाभावात् , यथा यग्निः खदेशस्थितान् प्रायोग्यपुद्गलानात्मभावेन परिणमयति एवं जीवोऽपीति, अल्पत्वाचेह विदिशामविवक्षितत्वेन षड्दिशागतमित्यभिधानं, यतो विदिग्व्यवस्थितमपि कर्मात्मना गृह्यते, उक्तं हि गन्धहस्तिना-"सर्वासु दिवात्मावधिकासु व्यवस्थितान् पुद्गलानादत्ते" इति, तथा 'क्षेत्रप्रस्तावे यद्विदिग्निरूपणं तच्चासामाकाशादभेदज्ञापनार्थ, तद्भेदेन तासामप्रतीतेः, तथा च यत्कैश्चिदिशां द्रव्यान्तरत्वमुक्तं तदपास्तं भवति, तथा षड्दिग्गतमपि द्वीन्द्रियादीने
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org