SearchBrowseAboutContactDonate
Page Preview
Page 270
Loading...
Download File
Download File
Page Text
________________ कर्मप्रकृ त्यध्य.३३ उत्तराध्य. बद्धस्य कर्मणो जीवप्रदेशाविचटनात्मकः स्थितिकालः 'भावं च' अनुभागलक्षणं कर्मणः पर्यायं चतुःस्थानिकत्रि स्थानिकादिरसमितियावद् 'अतः उत्तर मिति अतः-प्रकृत्यभिधानादूर्ध्व शृणु कथ्यमानमिति शेष इति सूत्रार्थः । तत्र बृहद्वृत्तिः तावत्प्रदेशाग्रमाह॥६४५॥ | सव्वेसिं चेव कम्माणं, पएसग्गमणंतगं । गंठियसत्ताईयं, अंतो सिद्धाण आहियं ॥१७॥ | 'सर्वेषां समस्तानां 'चः' पूरणे 'एवः' अपिशब्दार्थे सर्वेषामपि न तु केषाञ्चिदेव 'कर्मणां' ज्ञानावरणादीनां 'प्रदेशाग्रं' परमाणुपरिमाणम् अनन्तमेवानन्तकमनन्तपरमाणुनिष्पन्नत्वात्तद्वर्गणानां, तच्चानन्तकं ग्रन्थिरिव ग्रन्थिः-घनो रागद्वेषपरिणामस्तं गच्छन्ति ग्रन्थिगास्ते च ते सत्त्वाश्च ग्रन्थिगसत्त्वाः-ये ग्रन्थिप्रदेशं गत्वाऽपि तद्भेदाविधानेन न कदाचिदुपरिष्टाद्गन्तारः ते चाभव्या एवात्र गृह्यन्ते तानतीत-तेभ्योऽनन्तगुणत्वेनातिक्रान्तं ग्रन्थिगस त्त्वातीतं, तथा 'अन्तः' मध्ये 'सिद्धानां' सिद्धिपदप्राप्तानाम् 'आख्यातं' कथितं गणधरादिभिरिति गम्यते, सिद्धे. दभ्यो हि कर्मपरमाणवोऽनन्तभाग एव, तदपेक्षया सिद्धानामनन्तगुणत्वाद्, अतः सङ्ख्यामपेक्ष्य सिद्धान्तर्वति तद नन्तकमुच्यते, एकसमये ग्राह्यकर्मपरमाण्वपेक्षं चैतत् , उक्तं हि-'ते य कम्मपोग्गला भवसिद्धिएहिं अनंतगुणा सिद्धाणमणंतभागमित्ता एगेगंमि समए गहणमिति"त्ति, पठन्ति च-गंठि(प)सत्ताऽणाईत्ति अत्र व्याख्यानिक १ ते च कर्मपुद्गला भवसिद्धिकेभ्योऽनन्तगुणाः सिद्धानामनन्तभागमात्रा एकैकस्मिन् समये ग्रहणमायान्ति CALCCCCCESSAGE जा॥६४५॥ dain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.600236
Book TitleUttaradhyayansutram Part 03
Original Sutra AuthorVadivetal, Shantisuri
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1917
Total Pages408
LanguageSanskrit
ClassificationManuscript & agam_uttaradhyayan
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy