________________
ACCASIOCOLARSAROKARSANEONE
अभ्यधिकं पुनः पुनरुपभुज्यमानतया भुज्यत इत्युपभोगः-पुनः पुनरुपभोग्यभवनागनादिविषयः, उक्तं हि-"सति भुजइत्ति भोगो सो पुण आहारपुष्फमाईओ। उवभोगो उ पुणो पुण उवभुजइव भवणवणियाई॥१॥” तस्मिन् , विशेषेण ईय॑ते-चेष्ट्यतेऽनेनेति वीर्य तस्मिन् , 'तथा' समुच्चये सर्वत्रान्तरायमिति प्रक्रमः, ततश्च विषयभेदात्पञ्चविधमन्तरायं समासेन व्याख्यातं, तत्र दानान्तरायं यत्सति विशिष्टे ग्रहीतरि देये च वस्तुनि तत्फलमवगच्छतोऽपि दाने प्रवृत्तिमुपहन्ति, यत्पुनर्विशिष्टेऽपि दातरि यावन्निपुणेऽपि याचितरि उपलब्धिउपघातकृत् तल्लाभान्तरायं, भोगान्तरायं तु सति विभवादौ सम्पद्यमाने च आहारमाल्यादौ यद्वशान्न भुङ्क्ते, उपभोगान्तरायं तु यस्योदयात्सदपि वस्त्रालकारादि नोपभुङ्क्ते, वीर्यान्तरायं यद्वशाहलवान्नीरुग्वयःस्थः अथ च तृणकुब्जीकरणेऽप्यसमर्थ इति सूत्रद्वादशकार्थः १२॥ इत्थं प्रकृतयोऽभिहिताः, सम्प्रत्येतन्निगमनायोत्तरग्रन्थसम्बन्धनाय चाह
एयाओ मूलपयडीओ, उत्तराओ अ आहिया । पएसगं खित्तकाले य, भावं चादुत्तरं सुण ॥१६॥ 'एताः' अनन्तरोक्ता ज्ञानावरणादिरूपा मूलप्रकृतयः, तथा 'उत्तराः' इत्युत्तरप्रकृतयश्च श्रुतावरणाद्याः, चशब्दः श्रुतादीनामप्यक्षरानक्षरादिभेदतो बहुविधत्वादनुक्तबहुभेदसूचकः 'आख्याताः' कथिताः प्रदेशाः-परमाणवस्तेषामग्रंपरिमाणं प्रदेशाग्रं 'खेत्तकाले य'त्ति क्षेत्रकालौ च तत्र क्षियन्ति-निवसन्ति तस्मिन्निति क्षेत्रम्-आकाशं कालश्च
१ सकृद् भुज्यते इति भोगः स पुनराहारपुष्पादिः । उपभोगस्तु अनेकशः पुनः पुनरुपभुज्यते वा भवनवनितादिः ॥ १॥
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org