________________
क्षुर्दर्शनावरणादिचतुर्विधत्वात्मकेन प्रकारेण 'तुः' पूरण नव विकल्पा-भेदा यस्य तत्तथाविधं ज्ञातव्यं दर्शनावरणम् ।। 'वेदनीयं वेदनीयकर्म 'अपि च' इति पूरणे 'द्विविधं विभेदं खाद्यते-आल्हादकत्वेनाखाद्यत इति नैरुक्तविधिना 'सातं' सुखं शारीरं मानसं च इहोपचारात्तन्निबन्धनं कमैवमुक्तम् , 'असातं च तद्विपरीतम् 'आख्यातं' कथितं तीर्थकृद्भिरिति गम्यते, 'सायस्स उत्ति 'तुः' अपिशब्दार्थः ततः सातस्यापि बहवो भेदाः, न केवलं ज्ञानदर्शनावरणयोरित्यपिशब्दार्थः, ते च तद्धेतुभूतभूतानुकम्पादिबहुभेदत्वादू, एवमेवेति बहव एव भेदा असातस्यापि दुःखशोकतापादितद्धेतुबहुविधत्वादेवेति गर्भार्थः । मोहनीयमपि द्विविधं, न केवलं वेदनीयं, विषयतश्चैतविधेति द्वैविध्यमाह-'दर्शने' तत्त्वरुचिरूपे 'चरणे' चारित्रे तथा, किमुक्तं भवति?-दर्शनमोहनीयं चारित्रमोहनीयं च, तत्र |'दर्शने' दर्शनविषयं प्रक्रमान्मोहनीयं त्रिविधमुक्तं भवति, 'चरणे' चरणविषयं मोहनीयं द्विविधं भवेत् । यथा दर्शनमोहनीयत्रैविध्यं तथाऽऽह-सम्यग्भावः सम्यक्त्वं-शुद्धदलिकरूपं यदुदयेऽपि तत्त्वरुचिः स्यात् 'चैवेति पूरणे मिथ्याभावः मिथ्यात्वम्-अशुद्धदलिकरूपं यतस्तत्त्वेऽतत्त्वमतत्त्वेऽपि तत्त्वमिति बुद्धिरुत्पद्यते, सम्यग्मिथ्यात्वमेव च-शुद्धाशुद्धदलिकरूपं यत उभयखभावता जन्तोर्भवति. इह च सम्यक्त्वादयो जीवधर्मास्तद्धेतुत्वाच दलिकेष्वेतद्यपदेशः, एतास्तिस्रः प्रकृतयो मोहनीयस्य 'दर्शने' दर्शनविषयस्य ६ । चरित्रे मुह्यतेऽनेनेति मोहनं चरित्रमोहनं कर्म यतः श्रद्दधानोऽपि यदि कथञ्चनाहमेनं प्रतिपद्य इति जानन्नपि तत्फलादि न तत्प्रतिपद्यते, उत्तरत्र
Jain Education International
For Personal & Private Use Only
wwwbar og