________________
उत्तराध्य. बृहद्वृत्तिः ॥६४३॥
कर्मप्रकृत्यध्य.३३
REASOAMSACSASARSA
तुशब्दस्य भिन्नक्रमत्वात्तत्पुनर्द्विविधं व्याख्यातं श्रुतधरैरिति शेषः, पठन्ति च 'चरित्तमोहणिज्जं दुविहं वोच्छामि | अणुपुत्वसोति स्पष्टमेव, कथं तद् द्विविधमित्याह-कषायाः-क्रोधादयस्तद्रूपेण वेद्यते-अनुभूयते यत्तत्कषायवेदनीयं 'चः' समुच्चये 'नोकषायम्' इति प्रस्तावान्नोकषायवेदनीयं नोकषायाः-कषायसहवर्त्तिनो हास्यादयस्तद्रूपेण यद्वद्यते 'तथेति समुच्चये । अनयोरपि भेदानाह-पोडशविधः-पोडशप्रकारो यो भेदो-नानात्वं तेन, लक्षणे तृतीया, यद्वा षोडशविधं भेदेन-भिद्यमानतया चिन्त्यमानं, प्राकृतत्वादनुवारलोपः, कर्म क्रियमाणत्वात् 'तुः' पुनरर्थे भिन्नक्रमश्च, कषायेभ्यो जायत इति कषायजं "ज वेयति तं बंधति" इतिवचनात् कपायवेदनीयमित्यर्थः, षोडशविधत्वं चास्य क्रोधमानमायालोभानां चतुर्णामपि प्रत्येकमनन्तानुबन्ध्यप्रत्याख्यानप्रत्याख्यानावरणसंज्वलनभेदतश्चतुर्विधत्वात् 'सत्तविह'त्ति प्राग्वद्विन्दुलोपात्सप्तविधं वा कर्म नोकषायेभ्यो जायत इति 'नोकषायजं' नोक-| पायवेदनीयमित्यर्थः, तत्र सप्तविधं हास्यरत्यरतिभयशोकजुगुप्साः षडू वेदश्च सामान्यविवक्षयैक एवेति, यदा तु वेदः स्त्रीपुंनपुंसकभेदेन त्रिधेति विवक्ष्यते तदा पडिस्त्रयो मीलिता नव भवन्तीति नवविधमिति । 'णेरइयतिरिक्खाउ'त्ति |आयुःशब्दः प्रत्येक योज्यते, ततश्च निष्क्रान्ता अयात्-इष्टफलदैवात्तत्रोत्पन्नानां सद्वेदनाऽभावेनेति निरयास्तेषु भवा नैरयिकास्तेषामायुः [ग्रन्थाग्रम् १६०००] नैरयिकायुर्येन तेषु ध्रियन्ते, तथा तिरोऽञ्चन्तीति-गच्छन्तीति
१ यद्वेदयति तनाति
॥६४३॥
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org