SearchBrowseAboutContactDonate
Page Preview
Page 264
Loading...
Download File
Download File
Page Text
________________ उत्तराध्य. बृहद्वृत्तिः ॥६४२ ॥ 'तथैवे 'ति तेनैव निद्रावत्किञ्चिच्छुभरूपतात्मकेन प्रकारेण प्रचलत्यस्यामासीनोऽपीति प्रचला, उक्तं हि - “पयला होति ठियस्स उ"त्ति, "निद्रानिद्रा च' अतिशयनिद्रा दुःखप्रतिवोधात्मिकाऽतिशयख्यापनार्थत्वाद् द्विरुच्चारणस्य, | यदुक्तम् - "दुहपडिबोहो य हिणिद्द"त्ति, एवं ' प्रचलाप्रचला' प्रचलाऽतिशायिनी, सा हि चङ्क्रम्यमाणस्यापि भवति, यथोक्तम्- “पैयलापयला उ चंकमओ"त्ति, चशब्दावुभयत्र तुल्यताख्यापको, द्वे अपि शुभतया तुल्ये एवैते तत उपरीति शेषस्ततश्च प्रकृष्टतराशुभानुभावतया ताभ्य उपरिवर्त्तिनी स्त्याना संहतोपचितेत्यर्थः ऋद्धिर्गृद्धिर्वा यस्यां सा स्त्यानर्द्धिः स्त्यानगृद्धिर्वा, प्राच्यश्चः समुच्चयार्थ इह योज्यते, एतदुदये च वासुदेवबलार्द्ध| वलः प्रबलरागद्वेषोदयवांश्च जन्तुर्जायते, अत एव परिचिन्तितार्थसाधन्यसावुच्यते, यदुक्तम्- “श्रीर्णोद्धी पुण दिण - | चिंतियस्स अत्थस्स साहणी पायं" ति, 'तुः' पूरणे पञ्चमी भवति ज्ञातव्या । 'चक्खुमचक्खूओहिस्स'त्ति मकारोऽलाक्षणिकः, ततश्चक्षुश्चाचक्षुश्चावधिश्च चक्षुरचक्षुरवधीति समाहारस्तस्य दर्शन इति च प्रत्येकं दर्शनशब्दो योज्यते ततश्चक्षुर्दर्शने - चक्षुषा रूपसामान्यग्रहणे अचक्षूंपि - चक्षुः सदृशानि शेषेन्द्रियमनांसि तद्दर्शने - तेषां खखविषयसामान्यूपरिच्छेदे अवधिदर्शने - अवधिना रूपिद्रव्याणां सामान्यग्रहणे, तथा 'केवले यत्ति प्रक्रमात्केवलदर्शने - सर्वद्रव्यपर्याणां सामान्यावबोधे, आवरणमेतच्चक्षुर्दर्शनादिविषयभेदाच्चतुर्विधमत आह- 'एवम्' इत्यनेन निद्रापञ्चविधत्वच - १ प्रचला भवति स्थितस्यैव २ दुःखप्रतिबोधो निद्रानिद्रेति ३ प्रचलाप्रचला तु चंक्रम्यमाणस्य ४ स्त्यानर्द्धिः पुनर्दिनचिन्तितार्थस्य साधनी प्रायः Jain Education International For Personal & Private Use Only कर्मप्रकृ त्यध्य. ३३ ॥६४२॥ www.jainelibrary.org
SR No.600236
Book TitleUttaradhyayansutram Part 03
Original Sutra AuthorVadivetal, Shantisuri
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1917
Total Pages408
LanguageSanskrit
ClassificationManuscript & agam_uttaradhyayan
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy