SearchBrowseAboutContactDonate
Page Preview
Page 258
Loading...
Download File
Download File
Page Text
________________ प्रमादस्था उत्तराध्य. बृहद्वृत्तिः ना० ३२ ॥६३९॥ सर्वत्र सुब्ब्यत्ययेन षष्ठी 'मुक्तः' पृथगभूतः, यत् कीरगित्याह-'यद्' दुःखं 'बाधते' पीडयति 'सततम्' अनवरतं 'जन्तुं प्राणिनम् 'एनं' प्रत्यक्षमनुभवोपदर्शनमेतत् , दीर्घाणि यानि स्थितितः प्रक्रमात्कर्माणि तान्यामया इव-रोगा इव विविधबाधाविधायितया दीर्घामयास्तेभ्यो विप्रमुक्तो दीर्घामयविप्रमुक्तः अत एव 'प्रशस्तः' प्रशंसाहः, ततः किमित्याह-'तो' इति 'ततः दीर्घामयविप्रमोक्षाद् भवति' जायतेऽत्यन्तम्-अतिक्रान्तपर्यन्तं सुख-शर्म तदस्यास्तीत्यत्यन्तसुखी तत एव च 'कृतार्थः' कृतसकलकृत्य इति सूत्रार्थः ॥ सकलाध्ययनार्थ निगमयितुमाह अणाइकालप्पभवस्स एसो, सब्वस्स दुक्खस्स पमुक्खमग्गो। वियाहिओ जं समुविच्च सत्ता, कमेण अच्चंतसुही भवंति ॥ १११ ॥त्तिबेमि ॥ ॥पमायट्ठाणं ॥ ३२॥ 'अनादिकालप्रभवस्य' अनादिकालोत्पन्नस्य 'एषः' अनन्तरोक्तः सर्वस्य दुःखस्य 'प्रमोक्षमार्गः' प्रमोक्षोपायः, पाठान्तरतश्च संसारचक्रस्य विमोक्षमार्गो, व्याख्यातः, यः कीदृशः? इत्याह-'यं' दुःखप्रमोक्षमार्ग 'समुपेत्य' सम्यक् प्रतिपद्य 'सत्त्वाः' प्राणिनः 'क्रमण' उत्तरोत्तरगुणप्रतिपत्तिरूपेणात्यन्तसुखिनो भवन्तीति सूत्रार्थः ॥ इति परिसमाप्तौ, ब्रवीमीति पूर्ववत् । अवसितोऽनुगमो, नयाश्च प्राग्वत् ॥ इत्युत्तराध्ययनटीकायां श्रीशान्त्याचार्यविर|चितायां शिष्यहितायां प्रमादस्थानं नाम द्वात्रिंशमध्ययनं समाप्तमिति ॥ ३२॥ ॥६३९॥ Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.600236
Book TitleUttaradhyayansutram Part 03
Original Sutra AuthorVadivetal, Shantisuri
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1917
Total Pages408
LanguageSanskrit
ClassificationManuscript & agam_uttaradhyayan
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy