SearchBrowseAboutContactDonate
Page Preview
Page 257
Loading...
Download File
Download File
Page Text
________________ PASSESASARALS स्नातक एव प्रस्तुतः, स च घातिकर्मक्षयादेव भवतीति न तस्य छद्मस्थता संभवेत् , द्वितीयसूत्रे तु परमाणुदर्शनमेव प्रक्रान्त, तस्य च केवलं विना परमावधेस्ततो वा किञ्चिन्न्यूनस्यैव सम्भवस्तत्र च तौ व्यवच्छेदिताविति केवलमेवावशिष्यते, उक्तं च पूज्यैः-"ते दोऽवि विसेसेउं अन्नो छउमत्थकेवली को सो ? । जो पासइ परमाणुं गहणमिहं जस्स होजाहि ॥१॥" न चैवमप्यस्मिन् विशेषवति सूत्रे परवक्तव्यतैवेयमित्युपगन्तुमुचितम् , उक्तं हि-"एवं विसेसियंमिवि परमयमेगंतरावओगोत्ति । ण पुण उभओवओगो परवत्तवत्ति का बुद्धी? ॥१॥” इत्यादि कृतं प्रसङ्गेन प्रकृतमुच्यते-तथा चामोहनः-मोहरहितो भवति, तथा निष्क्रान्तोऽन्तरायो (यात्) निरन्तरायोऽनाश्रवः प्राग्वत् , ध्यानं-शुक्लध्यानं तेन समाधिः-परमखास्थ्यं तेन युक्तः-सहितो ध्यानसमाधियुक्तः आयुष उपलक्षणत्वान्नामगोत्रवेद्यानां च क्षय आयुःक्षयस्तस्मिन् सति मोक्षम् 'उपैति' प्राप्नोति 'शुद्धः' विगतकर्ममल इति सूत्रार्थः ॥ मोक्षगतश्च यादृशो भवति तदाह सो तस्स सव्वस्स दुहस्स मुक्खो , जं बाहई सययं जंतुमेयं ।। दीहामयविप्पमुक्को पसत्थो, तो होइ अचंतसुही कयत्थो ॥ ११०॥ 'सः' इति मोक्षप्राप्तो जन्तुः 'तस्मात्' इति जातिजरामरणरूपत्वेन प्रतिपादितात् 'सर्वस्मात्' निरवशेषाद् दुःखात् १ तौ द्वावपि अपोह्य अन्यश्छद्मस्थकेवली कः सः ? । यः पश्यति परमाणु प्रहणमिह यस्य भवेत् ॥ १ ॥२ एवं विशेषितेऽपि परमरातमेकान्तरोपयोग इति । न पुनरुभयोपयोगः परवक्तव्यतेति का बुद्धिः ? ॥२॥ Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.600236
Book TitleUttaradhyayansutram Part 03
Original Sutra AuthorVadivetal, Shantisuri
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1917
Total Pages408
LanguageSanskrit
ClassificationManuscript & agam_uttaradhyayan
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy