________________
प्रमादस्था
उत्तराध्य. बृहद्वृत्तिः ॥६३८॥
ना०
54CASSAMACCESCALCCAR
इव श्रमोपेतो विश्रम्यान्तर्मुहूर्त तड्विचरमसमये निद्राप्रचले देवगत्यादिनामप्रकृतीश्च क्षपयति, चरमसमये च ज्ञानावरणादित्रयमिति सूत्रार्थः ॥ तत्क्षयाच कं गुणमवाप्नोति ? इत्याह
सव्वं तओ जाणइ पासई य, अमोहणो होइ निरंतराए।
अणासवे झाणसमाहिजुत्तो, आउक्खए मुक्खमुवेइ सुद्धे ॥१०९॥ 'सर्व' निरवशेषं ततः' ज्ञानावरणादिक्षयात् 'जानाति' विशेषरूपतयाऽवगच्छति पश्यति च सामान्यरूपतया 'च' समुचयार्थः, तत एतेन भेदविषयत्वात्समुच्चयस्य पृथगुपयोगत्वमनयोः सूच्यते, ततश्च यदुक्तं युगपदुपयोगवादिना-"मणपजवणाणतो णाणस्स य दंसणस्स य विसेसो। केवलणाणं पुण दंसणन्ति नाणंति य समाणं ॥१॥"ति, तन्निराकृतं भवति, तथा च प्रज्ञप्त्यामभिहितम्-"ज समयं जाणंति णो तं समयं पासंति,' तथा केवली णं भंते ! इमं रयणप्प पुढविं आगारेहि हेऊहिं पमाणेहिं संठाणेहि परिवारहिं जं समयं जाणइ नो तं समयं पासति', हंता गोयमा! केवली ण" मित्यादि, न चात्र केवलिशब्देन छमस्थ एव श्रुतकेवल्यादिविवक्षित इति वाच्यं, यत इहायसूत्रे
१ मनःपर्यायज्ञानान्तः ज्ञानस्य च दर्शनस्य च विशेषः । केवलज्ञानं पुनर्दर्शनमिति ज्ञानमिति च समानम् ॥ १॥ २ यस्मिन् समये जानन्ति न तस्मिन् समये पश्यन्ति ३ केवली भदन्त ! इमां रत्नप्रभा पृथ्वीमाकारैः प्रमाणहेतुभिः संस्थानैः परिवारैः यस्मिन् समये |जानाति न तस्मिन् समये पश्यति ? हन्त गौतम ! केवली
॥६३८॥
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org