________________
* उपस्थितस्य' तदुक्तार्थानुष्ठानोद्यतस्येत्यर्थः,किमित्याह-खसङ्कल्पानाम्-आत्मसम्बन्धिनां रागाद्यध्यवसायानां विक-18
ल्पना-विशेषेण छेदनं स्वसङ्कल्पविकल्पना,दृश्यते हि छेदवाच्यपि कल्पशब्दः,यथोक्तम्-“सामर्थ्य वर्णनायां च, छेदने करणे तथा । औपम्ये चाधिवासे च, कल्पशब्दं विदुर्बुधाः ॥१॥" 'आसुं'ति 'आशु' शीघ्र 'संजायते' भवति, पठन्ति च-'ससंकप्पविकप्पणासोति, तथा 'अत्थे असंकप्पयतो'त्ति, तत्र च स्वस्य-आत्मनः सङ्कल्पः-अध्यवसायस्तस्य विकल्पा-रागादयो भेदास्तेषां नाशः-अभावः खसङ्कल्पविकल्पनाशः, तथा को गुणः ? इत्याह-'अर्थान्' रूपादीन् 'असङ्कल्पयतः' रागादिविषयतयाऽनध्यवस्यतः 'ततः' इति खसङ्कल्पविकल्पनातः खसंकल्पविकल्पनाशाद्वा 'से' तस्य प्रहीयते कामगुणेषु तृष्णेति सूत्रार्थः ॥ ततः स कीदृशः सन् किं विधत्ते ? इत्याह
सो वीयरागो कयसव्वकिच्चो, खवेइ नाणावरणं खणेणं ।
तहेव जं दरिसणमावरेइ, जं चतरायं पकरेइ कम्मं ॥ १०८॥ 'सः' इति हीनतृष्णः 'वीतरागः' विगतरागद्वेषो भवति, तृष्णा हि लोभस्तत्क्षये च क्षीणकषायगुणस्थानावाप्तिरिति, तथा कृतसर्वकृत्य इव कृतसर्वकृत्यः प्राप्तप्रायत्वादनेन मुक्तेः 'क्षपयति' क्षयं नयति 'ज्ञानावरणं' वक्ष्यमाणखरूपं 'क्षणेन' समयेन तथैव यद् 'दर्शन' चक्षुर्दर्शनादि 'आवृणोति' स्थगयति दर्शनावरणमित्यर्थः, यच्च 'अन्तरायं' दानादिलब्धिविघ्नं प्रकरोति 'कर्म' अन्तरायनामकमित्युक्तं भवति, स हि क्षपितमोहनीयस्तीर्णमहासागर
Jain Education International
For Personal & Private Use Only
www.janelibrary.org