SearchBrowseAboutContactDonate
Page Preview
Page 251
Loading...
Download File
Download File
Page Text
________________ कप्पं न इच्छिन्न सहायलिच्छ, पच्छाणुतावेण तवप्पभावं । एवं विकारे अमियप्पयारे, आवजई इंदियचोरवस्से ॥१०४ ॥ कल्पते-खाध्यायादिक्रियासु समर्थो भवतीति कल्पो-योग्यस्तम् , अपेर्गम्यमानत्वात्कल्पमपि, किं पुनरकल्पं ?, |शिष्यादीति गम्यते, 'नेच्छेत्' नाभिलषेत् 'सहायलिच्छू'त्ति बिन्दोरलाक्षणिकत्वात् 'सहाये (य) लिप्सुः' ममासौ शरीरसंबाधनादि साहाय्यं करिष्यतीत्यभिलाषुकः सन् , तथा पश्चादिति-प्रस्तावातस्य तपसो वाऽङ्गीकारादुत्तरकालमनुतापः-किमेतावन्मया कष्टमङ्गीकृतमिति चित्तबाधात्मको यस्य स तथाविधः चशब्दादन्यादृशश्च सम्भूतयतिवद् भवान्तरे भोगस्पृहयालुः, तपःप्रभावं प्रक्रमान्नेच्छेद्, यथा-न शक्यमङ्गीकृतं त्यक्तुं परं यद्यस्य व्रतस्य तपसो वा फलमस्ति तत एतस्मादिहैवामोषध्यादिलब्धिरस्तु, तदन्यादृशापेक्षया तु भवान्तरे शकचक्रिविभूत्यादि भूयादिति, किमेव निषिध्यते ? इत्याह-'एवम्' अमुना प्रकारेण 'विकारान्' दोषान् 'अमितप्रकारान्' अपरिमितभेदान् 'आपद्यते' प्रामोति इन्द्रियाणि चौरा इव धर्मसर्वखापहरणाद् इन्द्रियचौरास्तदश्यः-तदायत्तः, उक्तविशेषणविशिष्टस्य हि कल्प्यतपःप्रभाववाञ्छारूपेण स्पर्शनादीन्द्रियवश्यताऽवश्यसंभाविनी ततश्चोत्तरोत्तरविशेषानभिलषतः संयम ४ प्रति चित्तविप्लुत्यवधावनादिदोषा अपि संभवन्त्येवेति, एवं च अवतोऽयमाशयः-तदनुग्रहबुद्ध्या कल्पं पुष्टाल म्बने च तपःप्रभावं च वाञ्छतोऽपि न दोषः, अथवा कल्पमुक्तरूपं नेच्छेत्सहायलिप्सुं यदि कथञ्चनामी मम धर्म Jain Education International For Personal & Private Use Only www.janelibrary.org
SR No.600236
Book TitleUttaradhyayansutram Part 03
Original Sutra AuthorVadivetal, Shantisuri
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1917
Total Pages408
LanguageSanskrit
ClassificationManuscript & agam_uttaradhyayan
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy