________________
उत्तराध्य.
प्रमाद स्था
बृहद्धृत्तिः
ना०३२
॥६३५॥
MSRTCOM
कोहंचमाणंच तहेवमायं, लोभंदगुंछ अरइंरइंच।हासंभयं सोगपुमिथिवेयं, नपुंसवेयं विविहे य भावे॥१०२॥ आवजई एवमणेगरूवे,एवंविहे कामगुणेसु सत्तो। अन्ने य एयप्पभवे विसेसे,कारुण्णदीणे हिरिमे वइस्सो॥१३॥ __क्रोधं च मानं च तथैव मायां लोभ-चतुष्टयमप्युक्तरूपं 'जुगुप्सां चिकित्साम् 'अरर्ति' अस्वास्थ्यं रति च |विषयासक्तिरूपां 'हासं च' वऋविकाशलक्षणं 'भयं' साध्वसं शोकपुंस्त्रीवेदमिति समाहारनिर्देशः ततः शोकप्रियविप्रयोगजं मनोदुःखात्मकं पुंवेदं-स्त्रीविषयाभिलाषं स्त्रीवेदं-पुरुषाभिष्वङ्गं 'नपुंसकवेयंति नपुंसकवेदम्उभयाभिलाषं 'विविधांश्च' नानाविधान् 'भावान्' हर्षविषादादीनभिप्रायान् 'आपद्यते' प्राप्नोति, 'एवम्' अमुना रागद्वेषवत्तालक्षणेन प्रकारेण 'अनेकरूपान्' बहुभेदाननन्तानुबन्ध्यादिभेदेन तारतम्यभेदेन च 'एवंविधान्' उक्तप्र-| कारान् विकारानिति गम्यते 'कामगुणेषु' शब्दादिषु 'सक्तः' अभिष्वङ्गवान् उपलक्षणत्वाद् द्विष्टश्च, अन्यांश्च ‘एतत्प्रभवान्' क्रोधादिजनितान् 'विशेषान्' परितापदुर्गतिपातादीन् , कीदृशः सन् ? इत्याह-कारुण्यास्पदीभूतो दीनः कारुण्यदीनो मध्यपदलोपी समासोऽत्यन्तदीन इत्यर्थः, 'हिरिमत्ति 'हीमान् लजावान्, कोपाधापन्नो हि प्रीतिविनाशादिकमिहैवानुभवन् परत्र च तद्विपाकमतिकटुकं विभावयन् प्रायोऽतिदैन्यं लज्जां च भजते, तथा | 'वइस्स'त्ति आर्षत्वात् 'द्वेष्यः' तत्तदोषदुष्टत्वात्सर्वस्याप्रीतिभाजनमिति सूत्रद्वयार्थः ॥ यतश्चैवं रागद्वेषावेव दुःखमूलमतः प्रकारान्तरेणापि तयोरुद्धरणोपायाभिधानार्थ तद्विपर्यये दोषदर्शनार्थ चेदमाह
॥34॥
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org