________________
कुर्वन्ति 'किञ्चिदिति शारीरं मानसं चेति सूत्रार्थः ॥ ननु कश्चन कामभोगेषु सत्सु (न) वीतरागः संभवति, तत्कथमस्य दुःखाभावः ?, उच्यते
न कामभोगा समयं उर्विति, न यावि भोगा विगई उविंति ।
जे तप्पओसी य परिग्गही य, सो तेसु मोहा विगई उवेह ॥ १०१ ॥
'न' नैव 'कामभोगाः ' उक्तरूपाः 'समतां' रागद्वेषाभावरूपाम् 'उपयान्ति' उपगच्छन्ति हेतुत्वेनेति गम्यते, तद्धेतुत्वे हि तेषां न कश्चिद्रागद्वेषवान् भवेत्, न चापि 'भोगाः ' भुज्यमानतया सामान्येन शब्दादयः 'विकृतिं' क्रोधादिरूपाम्, इहापि हेतुत्वेनोपयन्तीत्यन्यथा न कश्चन रागद्वेषरहितः स्यात्, कोऽनयोस्तर्हि हेतुः ? इत्याह-यः 'तत्प्रदोषी च' तेषु विषयेषु प्रद्वेषवान् 'परिग्रही च' परिग्रहबुद्धिमान्, तेष्वेव रागीत्युक्तं भवति, स 'तेषु' विषयेषु 'मोहात्' रागद्वेषात्मकात् मोहनीयात् विकृतिमुपैति रागद्वेषरहितस्तु समतामित्यर्थादुक्तम् उक्तं हि पूर्व - | 'सतोरेव रागद्वेषयोरुदीरकत्वेन शब्दादयो हेतव इति, आह - "समो य जो तेसु स वीयरागो" इत्यनेन गतार्थमेतत् सत्यं तस्यैव त्वयं प्रपञ्चः, उक्तं हि 'त एव विधयः सुसंगृहीता भवन्ति येषां लक्षणं प्रपञ्चश्चोच्यते' इति | सुत्रार्थः ॥ किंखरूपाः पुनरसौ विकृतियां रागद्वेषवशादपैतीत्याह
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org