________________
उत्तराध्य.
बृहद्वृत्तिः
॥६३४॥
भावोपस्थापितो रूपादिरपि भाव उक्तः, स मनसो ग्राह्यः, स्वप्मकामदशादिषु हि मनस एव केवलस्य व्यापार इति, 'कामगुणेषु' मनोज्ञरूपादिषु 'गृद्धः' आसक्तः 'करेणुमग्गावहिए व णागे' इति इवार्थस्य चस्य भिन्नक्रमत्वात् करेण्वाकरिण्या मार्गेण - निजपथेनापहृतः - आकृष्टः करेणुमार्गापहृतः 'नाग इव' हस्तीव स हि मदान्धोऽप्यदूरवर्त्तिनी करेणुमुपदर्श्य तद्रूपादिमोहितस्तन्मार्गानुगामितया च गृह्यते सङ्ग्रामादिषु च प्रवेश्यते तथा च विनाशमाप्नोतीति | दृष्टान्तत्वेनोक्तः, आह— एवं चक्षुरादीन्द्रियवशादेव गजस्य प्रवृत्तिरिति कथमस्यात्र दृष्टान्तत्वेनाभिधानम् ?, उच्यते, एवमेतत्, मनःप्राधान्यविवक्षया त्वेतन्नेयं यदिवा तथाविधकामंदशायां चक्षुरादीन्द्रियव्यापाराभावे मनसः प्रवृत्तिरिति न दोषः, इह चानानुपूर्व्यपि निर्देशाङ्गमितीन्द्रियाणामित्यमुपन्यास इत्यष्टसप्ततिसूत्रावयवार्थः ॥ उक्तमेवार्थ सङ्क्षेपत उपसंहारव्याजेनाह
एवंदित्थाय मणस्स अत्था, दुक्खस्स हेउं मणुयस्स रागिणो । ते चैव वपि कयाइ दुक्खं, न वीयरागस्स करिंति किंचि ॥ १०० ॥
'एवम्' उक्तन्यायेन 'इन्द्रियार्थाः' चक्षुरादिविषया रूपादयः चशब्दो भिन्नक्रमस्ततो मनसोऽर्थाश्च - उक्तरूपा उपलक्षणत्वादिन्द्रियमनांसि च दुःखस्य 'हे' त्ति हेतवो मनुजस्य रागिणः, उपलक्षणत्वाद् द्वेषिणश्च विपर्यये गुणमाह'ते चेव' इन्द्रियमनोऽर्थाः 'स्तोकमपि' खल्पमपि कदाचिद् दुःखं 'न' नैव वीतरागस्य उपलक्षणत्वाद्वीतद्वेषस्य
Jain Education International
For Personal & Private Use Only
प्रमादस्थाना० ३२
॥६३४॥
www.jainelibrary.org