SearchBrowseAboutContactDonate
Page Preview
Page 247
Loading...
Download File
Download File
Page Text
________________ शादि, तथा 'हरिणमियच मुद्धे'त्ति, मृगः सर्वोऽपि पशुरुच्यते, यदुक्तम्- "मृगशीर्षे हस्तिजाती, मृगः पशुकुरङ्गयोः" इति, हरिणस्तु कुरङ्ग एवेति तेन विशेष्यते, हरिणश्चासौ मृगश्च हरिणमृगः 'मुग्धः' अनभिज्ञः सन् 'शब्दे' गौरिगीतात्मकेऽतृप्तः-तदाकृष्टचित्ततया तत्रातृप्तिमान् । 'घाणस्य' इति घाणेन्द्रियस्य गन्ध्यते-चायत इति गन्धस्तं 'मनोज्ञ' सुरभिम् 'अमनोज्ञम्' असुरभि, तथौषधयो-नागदमन्यादिकास्तासां गन्धस्तत्र गृद्धो-गृद्धिमानौषधिगन्धगृद्धः सन् 'सप्पबिलाओ विव'त्ति इवशब्दस्य भिन्नक्रमत्वात्सर्प इव बिलान्निष्क्रमन् , स ह्यत्यन्तप्रि(तत्प्रि)यतया तद्न्धं सोढुमशक्नुवन् बिलान्निष्क्रामति ३ । 'जिह्वायाः' 'जिह्वेन्द्रियस्य रस्यते-आखाद्यत इति रसस्तं 'मनोज' मधुरादि| 'अमनोज्ञं' कटुकादि तथा बडिशं-प्रान्तन्यस्तामिषो लोहकीलकस्तेन विभिन्नकायो-विदारितशरीरो बडिशविभिन्नकायः 'मत्स्यः' मीनो यथाऽऽमिषस्य-मांसादेर्भोगः-अभ्यवहारस्तत्र गृद्ध आमिषभोगगृद्धः ४ । काय इहस्पर्शनेद्रियं, सर्वशरीरगतत्वख्यापनार्थ चास्यैवमुक्तं, तस्य स्पृश्यत इति स्पर्शस्तं 'मनोज्ञं' मृदुप्रभृति 'अमनोशं'कर्कशादि शीतं-शीतस्पर्शवजलं-पानीयं तत्रावसन्नः-अवमग्नः शीतजलावसन्नो ग्राहैः-जलचरविशेषैगृहीत:-क्रोडीकृतो ग्राहगृहीतो महिष इवारण्ये, वसति हि कदाचित्केनचिदुन्मोच्येतापीत्यरण्यग्रहणम् ५। 'मनसः' चेतसो भावः-अभिप्रायः स चेह स्मृतिगोचरस्तं 'ग्रहणं' ग्राह्यं वदन्तीन्द्रियाविषयत्वात्तस्य, 'मनोज्ञ' मनोज्ञरूपादिविषयम् 'अमनोज' तद्विपरीतविषयम्, एवमुत्तरग्रन्थोऽपि भावविषयरूपाद्यपेक्षया व्याख्येयः, यद्वा खनकामदशादिषु । dan Education International For Personal & Private Use Only wwwane brary.org
SR No.600236
Book TitleUttaradhyayansutram Part 03
Original Sutra AuthorVadivetal, Shantisuri
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1917
Total Pages408
LanguageSanskrit
ClassificationManuscript & agam_uttaradhyayan
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy