SearchBrowseAboutContactDonate
Page Preview
Page 233
Loading...
Download File
Download File
Page Text
________________ वा खीजनस्यार्यध्यान-धादि तस्य योग्य-तद्धेतुत्वेनोचितमार्यध्यान योग्यं हितं' पथ्यं सदा सर्वकालं ब्रह्मवते पाठान्तरतो ब्रह्मचर्ये 'रतानाम् आसक्तानां, ततः स्थितमेतत्-स्त्रीणां रूपादि मनसि निवेश्य द्रष्टुं व्यवस्खेत् ॥ नन 'विकारहेतौ सति विक्रियन्ते, येषां न चेतांसि त एव धीराः' तत्किमिति रागमुद्ध कामेन विविक्तशयनासनताविधेयेत्युच्यते? इत्याशङ्कयाह-'कामंतु'त्ति अनुमतमेवैतद् यदुत 'देवीहिवित्ति 'देवीभिरपि' अप्सरोभिरप्यास्तां मानुषीभिरित्यपिशब्दार्थः 'भूषिताभिः' अलङ्कताभिः 'न' नैव'चाइय'त्ति शकिताः क्षोभयितुं' चालयितुं संयमादिति गम्यते |'तिसृभिः' मनोगुप्त्यादिगुप्तिभिर्गुप्ताः अर्थान्मुनयः 'तथाऽपि' यदप्येवंविधाश्चालयितुं न शक्यन्ते तदप्येकान्तहित|मेतदिति ज्ञात्वा, किमुक्तं भवति?-संभवन्ति हि केचिदभ्यस्तयोगिनोऽपि ये तत्सङ्गतः क्षुभ्यन्ति, येऽपि न क्षुभ्यन्ति तेऽपि स्त्रीसंसक्तवसतिवासे “साहु तवो वणवासो" इत्याद्यवर्णादिदोषभाजो भवेयुरिति परिभाव्य 'विविक्तवासो' विविक्तशय्यासनात्मको मुनीनां प्रशस्त इत्यन्त वितण्यर्थतया 'प्रशंसितः' गणधरादिभिः श्लाधित इत्यर्थः, अतः स एवाश्रयणीय इति भावः॥ एतत्समर्थनार्थमेव स्त्रीणां दुरतिक्रमत्वमाह-'मोक्षाभिकाङ्किणोऽपि' मुक्त्यभिलाषिणो|ऽपि मानवस्य संसारात्-चतुर्गतिरूपाद्भयनशीलो भीरुः संसारभीरुः, अपेरिहापि सम्बन्धात्तस्यापि-तथास्थितस्यापि |'धर्मे' श्रुतधर्मादौ 'न' नैव 'एतादृशम्' ईदृशं दुस्तरं-दुरतिक्रमम् 'अस्ति' विद्यते 'लोके' जगति यथा 'स्त्रियः' युवतयः 'बालमनोहराः' निर्विवेकचित्ताक्षेपिण्यो दुस्तराः, दुस्तरत्वे च बालमनोहरत्वं हेतुः, अतश्चातिदुस्तरत्वादासां परि Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.600236
Book TitleUttaradhyayansutram Part 03
Original Sutra AuthorVadivetal, Shantisuri
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1917
Total Pages408
LanguageSanskrit
ClassificationManuscript & agam_uttaradhyayan
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy