________________
उत्तराध्य.
बृहद्वृत्तिः
॥६२७॥
हार्यत्वेन विविक्तशय्यासनमेव श्रेय इति भावः ॥ नन्वेवं स्त्रीसङ्गातिक्रमार्थमयमुपाय उपदिष्टस्तथा शेषसङ्गातिक्र-प्रमादस्थामणार्थमपि किं न कश्चनोपाय उपदिश्यते ? इत्याह,-यदिवा स्त्रीसाङ्गतिक्रमे गुणमाह-एतांश्च ‘सङ्गान्' सम्बन्धान् प्रक्रमात्स्त्रीविषयान् 'समतिक्रम्य' उलय 'सुखोत्तराश्चैव' अकृच्छोलक्याश्चैव भवन्ति 'शेषाः' द्रव्यादिसङ्गाः, सर्वस
ना० ३२ ङ्गानां रागरूपत्वे समानेऽपि स्त्रीसङ्गानामेवैतेषु प्रधानत्वादिति भावः, दृष्टान्तमाह-यथा 'महासागरं' खयम्भूरमणमुत्तीर्य 'नदी' सरित् 'भवेत्' स्यात्सुखोत्तरैवेति प्रक्रमो वीर्यातिशययोगत इति भावः, 'अवि गंगासमाने ति गङ्गा किल महानदी तत्समानाऽपि-तत्सदृशापि, आस्तामितरा क्षुद्रनदीत्यपिशब्दार्थः॥ यदुक्तं "विवित्तसेज्जासणजत्तियाण"मित्यत्र विविक्तावसथमर्थतो व्याख्याय "ओमासणाणं दमिइंदियाण" मित्यत्रावमाशनत्वमनन्तरमेव प्रकामभोजननिषेधेन समर्थित, दमितेन्द्रियत्वं तूत्तरत्र वक्ष्यत इत्युभयमुपेक्ष्य "न रागसत्त धरिसेइ चित्त"मित्यत्र किमिति रागपराजयं प्रत्येवमुपदिश्यते ? इत्याशङ्कय रागस्य दुःखहेतुत्वं दर्शयितुमाह-कामाः-विषयास्तेष्वनुगृद्धिः-सतताभिकाङ्क्षा अनुभावानुबन्ध इत्यादिष्वनोः सातत्येऽपि दर्शनात् तस्याः प्रभवो यस्य तत्कामानुगृद्धिप्रभवं 'खु'त्ति खुशब्दस्यावधारणार्थत्वात्कामानुरद्धिप्रभवमेव, किं तत् ?-'दुःखम्' असातं सर्वस्व लोकस्य-प्राणिगणस्य, कदाचिद्देवानां विशिष्टानुभाववत्तयैवं न स्यादत आह-'सदेवकस्य' देवैः समन्वितस्य, कतरत्तद् दुःखमित्याह-यत्'कायिक' रोगादि 'मानसिकं| च' इष्टवियोगादिजन्यं 'किञ्चित् स्वल्पमपि, कदाचिदेतदभावेऽप्येतत्स्याद् अत आह-तस्य द्विविधखापि दुःख
18
२७॥
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org