________________
प्रमादस्थ ना० ३२
उत्तराध्य.
इव-'पराजितः' पराभूतः 'व्याधिरिव' कुष्ठादिः 'औषधैः' गहच्यादिभिर्देहमिति गम्यते, अनेनापि विविक्तश
ग्यासनादीनां काका विधेयत्वमुक्तम् , इदानीं तु विविक्तशयनासने यत्नाधानाय विपर्यये दोषमाह-यथा बिडालाबृहद्वृत्तिः
मार्जारास्तेषामावसथः-आश्रयो बिडालावसथस्तस्य 'मूले' समीपे न मूषकाणां वसतिः 'प्रशस्ता' शोभना, अवश्यं तत्र ॥६२६॥ तदपायसम्भवात् , एवमेव स्त्रीणां-युवतीनां पण्डकाद्युपलक्षणमेतत् निलयो-निवासः स्त्रीनिलयस्तस्य 'मध्ये' अन्तने
ब्रह्मचारिणः 'क्षमः' युक्तः, कोऽसौ?-निवासः-वसतिः, तत्र ब्रह्मचर्यबाधासम्भवादिति भावः। विविक्तशय्यावस्थितावपि कदाचित्स्त्रीसंपाते यत्कर्त्तव्यं तदाह-'न' नैव रूपं-सुसंस्थानता लावण्यं-नयनमनसामाहादको गुणो विलासाविशिष्टनेपथ्यरचनादयो हास:-कपोलविकासादिरेषां समाहारे रूपलावण्यविलासहासं न जल्पितं-मन्मनोलापादि 'इंगिय'त्ति बिन्दुलोपाद् 'इङ्गितम्' अङ्गभङ्गादि वीक्षितं' कटाक्षवीक्षितादि 'वा' समुच्चये स्त्रीणां सम्बन्धि 'चित्तंसि'त्ति 'चित्ते' मनसि 'निवेश्य' अहो ! सुन्दरमिदं चेति विकल्पतः स्थापयित्वा'द्रष्टं' इन्द्रियविषयतां नेतुं 'व्यवस्येत्'। अध्यवस्येत् श्रमणस्तपखीति प्राग्वत् , चित्ते निवेश्येत्यनेन च रागाद्यभिसन्धि विनतदर्शनमपि न दोषायेति ख्याप्यते, |उक्तं हि-'न सकं रूवमटुं'इत्यादि, निवेश्येति च समानकालत्वेऽपि क्त्वाप्रत्ययः अक्षिणी निमील्य हसतीत्या*दिवत् । किमित्येवमुपदिश्यते इत्याह-'अदर्शनम्' इन्द्रियाविषयीकरणं 'चः' समुचये 'एवः' अवधारणेऽदर्शनमेव च
'अप्रार्थनं च' अनभिलषणम् 'अचिन्तनं चैव' रूपाद्यपरिभावनम् 'अकीर्तनं च' असंशब्दनं, तच नामतो गुणतो
॥६२६॥
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org