________________
दाफलतातुल्यं च दृसत्वं दीप्सत्वं वा पक्षिसदृशाश्च कामा इति ॥ अनेन रसप्रकामभोजने दोष उक्तः, सम्प्रति सामान्येनैव
प्रकामभोजने दोषमाह-यथा 'दवाग्निः' दावानलः प्रचुरेन्धने 'वने' अरण्ये, एतदुपादानं च वसति (तिमति) कश्चिद्विध्यापकोऽपि स्यादिति, 'समारुतः सवायुः 'नोपसम'न्ति न 'उपशम' विध्यापनम् 'उपैति' प्रामोति,
'एवम्' इति दवानिवन्नोपशमभाग भवति 'इंदियग्गि'त्ति इन्द्रियशब्देनेन्द्रियजनितो राग एवोक्तः, तस्यैवानर्थहे"तुत्वेनेह चिन्त्यमानत्वात् , सोऽग्निरिव धर्मवनदाहकत्वाद् इन्द्रियाग्निः, सोऽपि 'प्रकामभोजिनः' अतिमात्राहारस्य,
प्रकामभोजनस्यैव पवनप्रायत्वेनातीव तदुदीरकत्वाद्, अतश्चायं न ब्रह्मचारिणः 'हिताय' हितनिमित्तं, ब्रह्मचर्यविघातकत्वेन कस्यचिद् 'अतिसुस्थितस्यापि, तदनेन प्रकामभोजनस्य काका परिहार्यत्वमुक्तम् ॥ इत्थं रागमुद्धाकामेन यत्परिहर्त्तव्यं तदभिधाय यदतियत्नेन कर्त्तव्यं तदाह-विविक्ता-ख्यादिविकला शय्या-वसतिस्तस्यामास
नम्-अवस्थानं तेन यत्रिता-नियन्त्रिता विविक्तशय्यासनयन्त्रितास्तेषाम् 'अवमाशनानाम्' न्यूनभोजनानां, पठन्ति ४च-'ओमासणाए'त्ति अवमं-न्यूनमशनम्-आहारो येषां तेऽमी अवमाशनास्तद्भावोऽवमाशनता-अवमौदर्यरूपार
तया दमितानि-वशीकृतानि इन्द्रियाणि यैस्ते तथा तेषां दमितेन्द्रियाणां, पठ्यते च-'ओमासणाईदमिइंदियाणं'ति, अवममशनं यत्र तपसि तदवमाशनं तदादिभिस्तपोभेदैर्दमितानीन्द्रियाणि यैस्ते तथा तेषां, 'न' नैव रागः शत्रुरिवाभिभवहेतुतया रागशत्रुः 'धर्षयति' पराभवति, किं तत् ?-चित्तं, किन्तु स एवेत्थं पराधृष्यत इति भावः, क
Jain Education Intemanora
For Personal & Private Use Only
www.jainelibrary.org