________________
प्रमादस्था
बृहद्वृत्तिः
ना० ३२
उत्तराध्य. । रसेत्यादि सूत्रैकादशकम् । 'रसा'क्षीरादिविकृतयः 'प्रकामम्' अत्यर्थ 'न.निषेवितव्याः' नोपभोक्तव्याः,प्रकामग्रहणं
तु वातादिक्षोभनिवारणाय रसा अपि निषेवितव्या एव, निष्कारणनिषेवणस्य तु निषेध इति ख्यापनार्थम् , उक्तं च
"अच्चाहारो न सहे अतिनिद्धेण विसया उदिति । जायामायाहारो तंपि पगामं ण भुंजामि ॥१॥” किमित्ये॥६२५॥ वमुपदिश्यते इत्याह-'प्रायः' बाहुल्येन रसा निषेव्यमाणा इति गम्यते, दृप्तिः-धातूद्रेकस्तत्करणशीला दृप्तिकरा
दृप्तकरा वा पाठान्तरतः इह च भावे क्तप्रत्यय इति दृसं दर्प उच्यते, दृश्यन्त एव हि कुर्वन्तो इप्सत्वममी प्राणिना|मिति, यदिवा दीसं दीपनं मोहानलज्वलनमित्यर्थस्तत्करणशीला दीसकराः, केषां ?-नराणामुपलक्षणत्वाख्यादीनां
च, उदीरयन्ति हि ते उपभुक्तास्तेषां मोहानलमिति, उक्तं हि-"विगैई परिणइधम्मो मोहो जमुदिजए उदिण्णे राय । सुडुवि चित्तजयपरो कहं अकजे ण बहिहिई ? ॥१॥" एवं च को दोष इत्याह-दृसं यदिवा दीसं नरमिति
प्रक्रमः 'चः' पुनरर्थे जातिविवक्षया च बहुवचनप्रक्रमेऽप्येकवचनं, 'कामाः' विषयाः 'समभिद्रवन्ति' अभिभवन्ति, तथाविधस्य ख्याधभिलपणीयत्वात्सुखाभिभवनीयत्वाचेति भावः, कमिव क इवेत्याह-'द्रुमं वृक्षं 'यथे' त्यौपम्ये, 'खादुफलं' मधुरफलान्वितं 'च' इति भिन्नक्रमः, ततश्च पक्खि'त्ति पक्षिण इव, इह च दुमोपमः पुरुषादिः खादु
१ अत्याहारं न भुजामि अतिस्निग्धेन विषया उदीयन्ते । यात्रामात्राहारस्तमपि प्रकामं न भुञ्जामि ॥ १ ॥ २ विकृतिः परिणतिधर्मा मोहो यदुदीर्यते उदीर्णे च । सुष्ठापि चित्तजयपरः कथमकार्ये न यति ? ॥ २ ॥
॥६२५॥
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org