________________
उत्तराध्य.
बृहद्वृत्तिः ॥२३॥
Xxcc
न्येन दुःखप्रमोक्षहेतुत्वख्यापनार्थ यथा तेषां सम्भवो यथा दुःखहेतुत्वं यथा च दुःखस्य प्रसङ्गतस्तेषां चाभावस्तथा प्रमादस्थावि(भि)धातुमाह
ना० ३२ | जहा य अंडप्पभवा बलागा, अंडं बलागप्पभवं जहा य । एमेव मोहाययणं खु तण्हं, मोहं च तण्हाययणं वयंति ॥ ६॥ रागो य दोसोविय कम्मबीयं, कम्मं च मोहप्पभवं वयंति । कम्मं च जाईमरणस्स मूलं, दुक्खं च जाईमरणं वयंति ॥७॥ दुक्खं हयं जस्स न होइ मोहो, मोहो हो जस्स न होइ तण्हा । तण्हा हया जरस न होइ लोभो, लोभो हओ जस्स न किंचणाई ॥८॥ | 'यथा चेति येनैव प्रकारेणाण्डं-प्रतीतं ततः प्रभव-उत्पत्तिर्यस्याः साण्डप्रभवा 'बलाका' पक्षिविशेषः, अण्डं 2 बलाकातः प्रभवतीति बलाकाप्रभवं यथा च, किमुक्तं भवति ?-यथाऽनयोः परस्परमुत्पत्तिस्थानता 'एवमेव' अनेनैव प्रकारेण मोहयति-मूढतां नयत्यात्मानमिति मोहः-अज्ञानं तच्चेह मिथ्यात्वदोषदुष्टं ज्ञानमेव गृह्यते, उक्तं हि"जह दुवयणमवयण"मित्यादि, आयतनम्-उत्पत्तिस्थानं यस्याः सा मोहायतना तां 'खुः' अवधारणे ततो मोहायतनामेव 'तण्हन्ति तृष्णां वदन्तीति सम्बन्धः, यथोक्तमोहाभावे ह्यवश्यम्भावी तृष्णाक्षय इति, मोहंच तृष्णाऽऽयतनं यस्यासौ तृष्णायतनस्तं वदन्ति, तृष्णा हि सति मूर्छा, सा चात्यन्तदुस्त्यजेति रागप्रधाना ततस्तया राग उपलक्ष्यते सति च तत्र द्वेषोऽपि संभवतीति सोऽप्यनयैवाक्षिप्यते ततस्तृष्णाग्रहणेन रागद्वेषावुक्ती, एतयोश्चा
॥६२३॥
For Personal & Private Use Only
Jain Education International
www.jainelibrary.org