________________
धिकामः, अत्र च समाधिर्द्रव्यभावभेदाद्विभेदः, तत्र द्रव्यसमाधिः क्षीरशर्करादिद्रव्याणां परस्परमविरोधेनावस्थानं, | भावसमाधिस्तु ज्ञानादीनां परस्परमवाधयाऽवस्थानं तदनन्यत्वाच्च ज्ञानादीनामयमेवेह गृह्यते, तथा च ज्ञानाद्यवासुकाम इत्युक्तं भवति, श्रमणस्तपखीति प्राग्वदिति सूत्रार्थः ॥ कालादिदोषत एवंविधसहायाप्राप्तौ यत्कृत्यं
तदाह
न वा लभिजा निउणं सहायं, गुणाहियं वा गुणओ समं वा । एगोवि पावाइ विवज्जयंतो, विहरेज कामेसु असजमाणो ॥ ५ ॥
'न' निषेधे वाशब्दश्चेदर्थे ततश्च न चेत् 'लभेत्' प्राप्नुयात् 'निपुणम्' इति निपुणबुद्धिं 'सहायं' गुणैः - ज्ञाना| दिभिरधिकम् - अर्गलं गुणाधिकं वा 'गुणतः' इति ज्ञानादिगुणानाश्रित्य 'समं वा' तुल्यमुभयत्रात्मन इति गम्यते, 'वे'ति विकल्पे, ततः किमित्याह - 'एकोऽपि ' असहायोऽपि 'पापानि' पापहेतुभूतान्यनुष्ठानानि 'विवर्जयन्' विशेषेण परिहरन्, पठ्यते च - 'अणायरंतो 'ति अनाचरन् 'विहरेत्' संयमाध्वनि यायात् 'कामेषु' विषयेषु 'असजन' प्रतिबन्धमकुर्वन्, तथाविधगीतार्थयतिविषयं चैतद्, अन्यथैकाकिविहारस्यागमे निषिद्धत्वात् एतदविधाने च | 'मध्यग्रहणे आद्यन्तयोरपि ग्रहणं भवती'ति न्यायादाहारवसतिविषयोऽप्यपवाद उक्त एव भवतीति मन्तव्यम् ॥ इत्थं सप्रसङ्ग ज्ञानादीनां दुःखप्रमोक्षोपायत्वमुक्तम् इदानीं तेषामपि मोहादिक्षयनिबन्धनत्वात्तत्क्षयस्यैव प्राधा
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org