________________
नन्तानुबन्धिकपायरूपयोः सत्तायामवश्यम्भावी मिथ्यात्वोदयः, अत एवोपशान्तकषायवीतरागस्यापि मिथ्यात्व४ गमनं, तत्र च सिद्ध एवाज्ञानरूपो मोहः, एतेन च परस्परं हेतुहेतुमद्भावाभिधानेन यथा रागादीनां सम्भवस्तथोक्तं, सम्प्रति यथैतेषां दुःखहेतुत्वं तथा वक्तुमाह-रागश्च' मायालोभात्मकः 'द्वेषोऽपिच' क्रोधमानात्मकः कर्मज्ञानावरणादि तस्य बीज-कारणं कर्मबीजं, कर्म चस्य भिन्नक्रमत्वान्मोहात्प्रभवतीति मोहप्रभवं च-मोहकारणं वदन्ति। 'चः' सर्वत्र समुचये 'कर्म च' इति कर्म पुनर्जातयश्च मरणानि च जातिमरणं तस्य 'मूलं' कारणं 'दुःखं' संसारमसातपक्षे । तु दुःखयतीति दुःखं, कोऽर्थः १-दुःखहेतुं, चस्य पुनरर्थस्य भिन्नक्रमत्वात् जातिमरणं पुनर्वदन्ति, तीर्थकरादय इति गम्यते, जातिमरणस्यैवातिशयदुःखोत्पादकत्वात् , उक्तं हि-"मेरमाणस्स जं दुक्खं, जायमाणस्स जंतुणो । तेण |दुक्खेण संतत्तो, न सरति जातिमप्पणो ॥१॥" यतश्चैवमतः किं स्थितमित्याह-'दुःखम्' उक्तरूपं हतमिव हतं, केनेत्याह-यस्य 'न भवति' न विद्यते, कोऽसौ ?-मोहः, अस्यैव तन्मूलकारणत्वात् , ततो हि कर्म कर्मणश्च दुःखमित्यनन्तरमेवोक्तं, हतमिव हतमिति च व्याख्यातं तत्क्षयेऽपि नारकादिगतौ खतत्त्वभावनापरस्यापि कियतोऽपि दुःखस्य सम्भवात् , यदि दुःखहननं मोहाभावाद् असावपि कुत इत्याह-मोहो हतो यस्य न भवति तृष्णा, |कोऽर्थः -तृष्णाया अभावान्मोहाभावः, तदायतनत्वेन तस्या अभिधानात् , तृष्णाया अपि कुतो हननमित्याह
१ म्रियमाणस्य यदुःखं जायमानस्य जन्तोः । तेन दुःखेन संतप्तो न स्मरति जातिमात्मनः ॥ १ ॥ २ ख्यापक्षद्वयेऽपि
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org