________________
सम्यगध्यास्ते। विरुद्धा विरूपा वा कथा विकथा,सा च स्त्रीभक्तजनपदनृपतिभेदतश्चतुर्धा, कषायाः-क्रोधमानमायालोभाःसञ्जा-आहारमयमैथुनपरिग्रहाख्याः, एषां कृतद्वन्द्वानां प्रत्येकं चतुष्कमिति शेषः, 'झाणाणंच'त्ति प्राकृतत्वाद ध्यानयोश्च द्विकमातरौद्ररूपं तथा यो भिक्षुः 'वर्जयति' परिहरति, चतुर्विधत्वाच ध्यानस्यात्र प्रस्तावेऽभिधानम् । 'व्रतेषु' हिंसाऽनृतस्तेयाब्रह्मपरिग्रहविरतिलक्षणेषु 'इन्द्रियार्थेषु' शब्दरूपरसगन्धस्पर्शेषु 'समितिषु' समित्यध्ययना|भिहितासु च क्रियासु-कायिक्याधिकरणिकीप्राद्वेषिकीपारितापनिकीप्राणातिपातरूपासु, पठन्ति च 'समीतीसु लाय तहेव यत्ति, अत्र च चशब्दाक्रियासु चेति यो भिक्षुः 'यतते' यत्नं कुरुते यथावत्परिपालनातो व्रतसमितिषु
माध्यस्थ्यविधानतश्चेन्द्रियार्थेषु परिहारतश्च क्रियासु । 'लेश्यासु' वक्ष्यमाणरूपासु 'षट्सु कायेषु' पृथिव्यादिषु | वक्ष्यमाणेष्वेव 'पद्धे' षट्परिमाणे 'आहारकारणे' वेदनादावुक्तरूपे यो भिक्षुः 'यतते' यथायोगं निरोधोत्पाद
नरक्षानुरोधविधानेन यत्नं कुरुते । 'पिण्डावग्रहप्रतिमासु' आहारग्रहणविषयाभिग्रहरूपासु संसृष्टादिष्वनन्तराध्ययनोक्तासु सप्तखिति संबध्यते, तथा 'भयस्थानेषु' भयस्य-भयमोहनीयसमुत्थात्मपरिणामस्योत्पत्तिनिमित्ततयाऽऽश्रयेषु इहलोकादिषु प्रागुक्तरूपेषु 'सप्तसु' सप्तसङ्खयेषु यो भिक्षुः 'यतते' एकत्र तु पालनातोऽन्यत्र तदशेन भयाकरणतः । मदा-जातिमदादयः प्रागभिहिता अष्टौ तेषु, प्रतीतत्वाचेहान्यत्र च सूत्रे सङ्ख्यानभिधानं, ब्रह्म-ब्रह्मचर्य तस्य गोपनं गुप्तिर्यकाभिस्ता ब्रह्मगुप्तयो गमकत्वादहुव्रीहिस्तासु वसत्यादिषु नवसु, उक्तं च
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org