SearchBrowseAboutContactDonate
Page Preview
Page 204
Loading...
Download File
Download File
Page Text
________________ उत्तराध्य. चरणवि बृहद्वृत्तिः ध्य०३१ ॥६१२॥ रसगौरवसातगौरव न तिष्ठति मण्डले, पठन्ति च-से ण गच्छइ मंडले'त्ति 'न' नैव 'गच्छति' याति भ्राम्यतीति योऽर्थः, उभयत्र च मण्डलशब्दस्य वृद्धव्याख्या-मण्डलग्रहणाचतुरन्तः संसारः परिगृह्यते, मुक्तिपदप्राप्तिश्चात्र हेतुः, एवमुत्तरत्र सूत्रेप्वपि नित्यमित्यादि व्याख्येयम् । दण्ड्यते-चारित्रैश्वर्यापहारतोऽसारीक्रियते एभिरात्मेति दण्डा-दुष्प्रणिहितमानसादिरूपा मनोदण्डादयः, उक्तं हि-"जह लोए दंडिजइ दवं हीरइय वज्झए यावि। इय दंडंतऽप्पाणं मणमाई दुप्पणिहिएहिं ॥१॥" तेषां 'त्रिक' मनोदण्डवाग्दण्डकायदण्डरूपं, तथा गुरुः-लाभाभिमानाध्मातचित्त आत्मैव तद्भावास्तस्य वैतान्यध्यवसानानि गौरवाणि तेषां 'त्रिक' ऋद्धिगौरवरसगौरवसातगौरवात्मकं, तथा शल्यते-अनेकार्थत्वाद्वाध्यते जन्तुरेभिरिति शल्यानि तेषां च 'त्रिक' मायाशल्यनिदानशल्यमिथ्याशल्यात्मकम् , उभयत्र 'च' समुच्चये, त्रिकं त्रिकमिति च प्रत्येकं त्रैविध्याभिधानतो व्याख्यातमेव, यो भिक्षः 'त्यजति' वर्जयति । दिव्यांश्चहास्यप्रद्वेषविमर्शपृथग्विमात्राभिर्देवविहितान् उप-सामीप्येन सृज्यन्ते-देवादिभिरुत्पाद्यन्त इत्युपसर्गास्तान्, तथा 'तेरिच्छमाणुसे'त्ति तिरश्चामेते भयप्रद्वेषाहारहेत्वपत्यलयनसंरक्षणहेतोस्तैः क्रियमाणत्वात्तैरश्चाः तथा मानुषाणामेते हासप्रद्वेषविमर्शकुशीलप्रतिसेवनात्मकनिमित्ततस्तैर्विधीयमानत्वान्मानुषकाश्च तैरश्चमानुषकास्तान् उपलक्षणत्वात्पूवत्र चशब्दस्यानुक्तसमुच्चयार्थत्वाद्वाऽऽत्मसंवेदनीयांश्च घट्टनप्रपतनस्तम्भनश्लेषणोद्भवान् यो भिक्षुः ‘सहते' १ यथा लोके दण्ड्यते द्रव्यं ह्रियते च वध्यते चापि । इति दण्डयन्यात्मानं मनआदीनि दुष्प्रयुक्तैः ॥१॥ हास्यप्रद्वेषविकामति च प्रत्येकाच 'त्रिकं' माया ॥६१२॥ Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.600236
Book TitleUttaradhyayansutram Part 03
Original Sutra AuthorVadivetal, Shantisuri
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1917
Total Pages408
LanguageSanskrit
ClassificationManuscript & agam_uttaradhyayan
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy